OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 12, 2020

 चलदूरवाण्यां काचे धनपत्रे च कोराणावैराणु २८ दिनानि जीवति - नूतनं अध्ययनफलम्।  


    कोरोणावैराणु २८ दिनानि यावत्  प्रतलस्य विशेषतानुसारं जीवति इति नूतनम् आवेदनम् आगच्छति। निर्मले अयःप्रतले चलदूरवाण्याः काचमयप्रतले, पलास्तिके, धनपत्रे, काकदे च  अष्टविंशति दिनानि यावत् अतिजीवनं कुर्वन्नस्ति कोविड् १९ वैराणुः इति भवति नूतनम् आवेदनम्। एतादृशेषु प्रतलेषु वैराणुः सप्त दिनानि यावत् जीवति इत्यासीत् पूर्वतनस्य अध्ययनस्य फलम्।  ओस्ट्रेलियस्य अनुसन्धानसंस्थयाः (CSIRO) गवेषकाः इदं नूतनम् अध्ययनफलं प्रकाशितवन्तः।