OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 6, 2020

 गजसंरक्षणाय केन्द्राभियोजना।

    नवदिल्ली> राष्ट्रे विद्यमानानां वन्यगजानां  संरक्षणाय व्याघ्रसंरक्षणकेन्द्राणि इव नियम परिसरक्षां दातुं केन्द्रसर्वकारेण उद्यमते। यदा अभियोजना प्रवृत्तिपथमागच्छति तदा प्रभृति गजसंरक्षणकेन्द्राणां समीपे खननम्, उद्योगसंरम्भाः इत्यादीनि नानुमोदन्ते। 

   गजसंरक्षणकेन्द्रेभ्यः नियमपरिरक्षां विधातुं १९७२ तमवर्षस्य वन्यजीविसंरक्षणनियमं परिष्कर्तुं केन्द्रसर्वकारः चिन्तयति। राष्ट्रे १५ राज्येषु ३० गजारक्षणानि [Elephant Reserves] सन्तीति निर्णीतमस्ति।