OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 12, 2020

 केरलेषु विद्यालयाः 'सम्पूर्णडिजिटल्' पदं प्राप्ताः। 


   अन्तपुरी> केरलं भारतस्य इदंप्रथमं 'सम्पूर्णडिजिटटल् विद्यालयराज्यम्' अभवत्। राज्येषु सम्पूर्णेषु सामाजिकविद्यालयप्रकोष्ठेषु ऐ टि तन्त्रोपकरणान् संस्थाप्य अध्ययनमार्गम् आधुनिकं कर्तुमेव सर्वकारस्यायमुद्यमः। राज्यस्य मुख्यमन्त्री पिणरायि विजयः ओण् लैन् द्वारा आयोजिते समारोहे  सम्पूर्णडिजिटल् आयोजनायाः पूर्तीकरणप्रख्यापनमकरोत्। 

  केरलस्य अशेष्वपि सामाजिकविद्यालयेषु ३,७४,२७४ डिजिटल् उपकरणानि विन्यस्तानि। एषूपकरणेषु Lap top, Multi Medea Projector, T V, DSLR Camera, इत्यादीनि नवविधानि ऐ टि सम्बन्धोपकरणानि विद्यन्ते। कैट्, किफ्बि नामकसंस्थयोः नेतृत्वे सामान्यविद्याभ्याससंरक्षणयज्ञः नामकाभियोजनाद्वारा एव एतादृशं पदं प्राप्तम्। 

 कार्यक्रमेऽस्मिन् शिक्षामन्त्री प्रोफ.सि. रवीन्द्रनाथः अध्यक्षपदमलंकृतवान्। विधानसभाध्यक्षः पि श्रीरामकृष्णः मुख्यातिथिः आसीत्। वित्तमन्त्री डो. टि एम् ऐसक्कः मुख्यभाषणमकरोत्। इतरे मन्त्रिणः सामाजिकाः प्रमुखाधिकारिवृन्दश्च कार्यक्रमे ओण्लैन् द्वारा सन्निहिताः आसन्।