OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 14, 2020

 केरलसर्वकारस्य चलच्चित्रपुरस्काराः प्रख्यापिताः - 'वासन्ती' उत्कृष्टचलच्चित्रं, सुराजः श्रेष्ठः अभिनेता, अभिनेत्री तु कनी कुसृती, सूत्रधारः लिजो जोस् पेल्लिशेरि। 


 अनन्तपुरी>  केरले ५०तमाः राज्यस्तरीयचलच्चित्रपुरस्काराः प्रख्यापिताः। 'रह्मान् ब्रदेर्स्' इति नाम्नि षिनोस् रह्मान् सजास् रह्मान् सोदरद्वयेन निदेशं कृतं वासन्ती नामकं चलच्चित्रं गतसंवत्सरस्य  चलच्चित्रेषु सर्वोत्कृष्टं पदमलङ्कृतम्। 'आन्ड्रोय्ड् कुञ्ञप्पन्' 'विकृति' इत्येतयोः चलच्चित्रयोः अभिनयेन सुराज् वेञ्ञारम्मूट् श्रेष्ठः अभिनेता इति पुरस्काराय चितः। 

  कनी कुसृती भवति श्रेष्ठा अभिनेत्री - चलच्चित्रं 'बिरियाणि' नामकम्। 'कुम्पलङ्ङी नैट्स्' नामकचलच्चित्रं महत्तमां जनप्रीतिं प्राप्तम्। सर्वोत्कृष्टस्य सूत्रधारस्य पदं लिजो जोसफ् पेल्लिशेरि च प्राप्तवान्।