OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 7, 2020

 ट्रम्पं विरुद्ध्य मुखपुस्तकस्य ट्विट्टर् माध्यमस्य च प्रक्रमः।


     वाषिङ्टण्> कोविड्रोगं सामान्य लघुज्वरवत् परिकल्प्य  फेय्स् बुक्क् ट्विट्टर् नाम सामाजिकमाध्यमद्वारा ट्रम्पः सन्देशं कृतवान् इति दोषकारणेन फेस्बुक् टिट्वर् अधिकारिभ्यां प्रक्रमाः स्वीकृताः। सामान्यज्वरेण प्रतिवर्षं सहस्रशः जनाः मृताः भवन्ति इति अतः निःसारस्य रोगस्य कारणतया राष्ट्रस्य पिधानीकरणस्य आवश्यकता नास्ति इति सः सन्देशं प्रासारयत्। अनेन सन्देशेन जनेभ्यः अज्ञानप्रदानं कृतवान् ट्रम्पः इति फेय्स्बुक् माध्यमेन तथा टिट्वर् माध्यमेन च प्रत्यभिज्ञातम्। सामाजिक माध्यमनियमानि ट्रम्पेण उल्लङ्घितानि इति टिट्वर् माध्यमेन आवेदितम्।