OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 11, 2020

 केरले कोविड्प्रतिदिनसंख्या ११सहस्रमतीता। 

   अनन्तपुरी> शनिवासरे केरले कोविड्बाधिताः ११,७५५ जाताः।६६,२२८ आदर्श परीक्षणानि संवृत्तानि। परीक्षणस्पष्टताप्रतिशतता २३अधिका जाता। 

  ७४७० रोगिणः रोगमुक्ताः अभवन्। ह्यः २३ मरणानि स्थिरीकृतानि। आहत्य मृत्युसंख्या ९७८ जाता। 

  ओक्टोबर् नवम्बर् मासद्वये केरले रोगव्यापनतीव्रता इतोप्यधिका भविष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन उक्तम्। स्वास्थ्यप्रवर्तकाः अपि बहवः रोगबाधिताः ततोप्यधिकाः श्रान्ताश्चाभवन्।