OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 8, 2020

 केरले प्रतिदिनकोविड्रोगिणः दशसहस्रमुपेताः। 

     अनन्तपुरी> केरलराज्ये कोविड्रोगबाधितानां प्रतिदिनसंख्या इदंप्रथमतया ह्यः दशसहस्रं प्राप्ता। ७३,८१६ जनानां स्रवपरिशोधनायां १०,६०६ जनेषु रोगबाधा दृढीकृता। ९८ स्वास्थ्यप्रवर्तकान् अभिभूय ९६४६ जनेषु संसर्गेणैव रोगः बाधितः। ७४१ जनानां रोगस्रोतः अस्पष्टं वर्तते। 

   २४ होराभ्यन्तरे एतावता आदर्शपरिशोधनापि प्रथमतया एव संवृत्ता। ह्यः ६१६१ रोगिणः स्वस्थीभूताः अभवन्। 

  राज्ये इतःपर्यन्तं रोगबाधिताः सार्धद्विलक्षाधिकं अभवन्। ९२,१६१ रुग्णाः परिचर्यायां वर्तन्ते। अशेषा मृत्युसंख्या ९०६ प्राप्ता।