OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 3, 2020

 विश्वस्य दीर्घतमा सुरङ्गवीथिः 'अटल् टनल्' भारतेन उद्घाटिता।

१०.०२ कि.मी दीर्धिता इयं वीथिः। 


       मणालि> समुद्रतलात् उन्नता विश्वस्य दीर्घतमा सुरङ्गवीथिः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। प्रतिरोधमन्त्री राजनाथसिंह: हिमाचलप्रदेशस्य मुख्यमन्त्री जयराम ठाकुरः च कार्यक्रमे भागं स्वीकुर्वन्तः सन्ति। मणालीतः लडाक् पर्यन्तं ९.०२ किलो मीट्टर् दीर्घता इयं सुरङ्गवीथिः। समुद्रोपरितलात् ३००० मीट्टर् उपरि वर्ताते इयं वीथिः। दशवर्षाणि वीथीनिर्माणाय उपयुक्तानि। अनेन मार्गेण यात्रादूरं ४६ कि.मी न्यूनमभवत् इति महान् लाभः। यात्रासमयेषु ५ होरायाः लाभः च अस्ति।