OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 24, 2021

प्राणवायोः आनयनाय रेल्वे व्योमसेना च।

ऐकमत्यं भवति चेत् विभवदौर्लभ्यं न भविष्यतीति प्रधानमन्त्री।

    नवदिल्ली> राष्ट्रस्य विविधस्थानेषु कोविड्रोगिणां कृते प्राणवायोः आनयनाय रेल्वेसंस्था व्योमसेना च निर्दिष्टे इति प्रधानमन्त्रिणा नरेद्रमोदिना निगदितम्। तीव्रकोविडानां ११ राज्यानां केन्द्रशासनप्रदेशानां मुख्यमन्त्रिभिः सह सम्पन्ने अवलोकनमेलने भाषमाणः आसीत् प्रधानमन्त्री। 

  कोविडस्य वैराणुबाधा भारतस्य बहुषु महानगरेषु तीव्रं वर्तते। सर्वेभ्यः राज्येभ्यः केन्द्रसर्वकारस्य साहाय्यं सर्वथा लप्स्यते। वयमैकमत्येन वर्तते चेत् विभवदौर्लभ्यं न भविष्यति - प्रधानमन्त्री उदबोधयत्।