OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 25, 2021

 उत्तरभारते प्राणवायोः दुर्लभता - ५६ मरणानि। 

    नवदिल्ली> उत्तरभारते बहुत्र आतुरालयेषु प्राणवायोः दुर्लभतया ५६ कोविड्रोगिणः गतदिनद्वये मृत्युमुपगताः। राजधानीनगरस्थे गङ्गारामातुरालये शुक्रवासरे २५ रोगिणः अवश्यानुसारं प्राणवायुमलब्ध्वा मृताः। ६० रोगिणः सङ्कटावस्थायां वर्तन्ते इति सूच्यते।

  दक्षिणपश्चिमदिल्यां जय्पुरं गोल्डण् आतुरालये गतदिने २५ रोगिणः प्राणवायोरभावेन कालगतिं प्राप्ताः। पञ्चाबे अमृतसरे नील् कान्तातुरालये ६ जनाश्च मृताः। 

  दिल्ल्यां बहुषु आतुरालयेषु प्राणवायोः अलभ्यता तीव्रं वर्तते। सरोज्, बत्रा, विंहान्स् इत्यादिषु आतुरालयेषु प्राणवायोः दुर्बभिक्षेण कोविड्रोगिणः प्रवेश अपि निरूद्धः। केषुचिदातुरालयेषु टाङ्कर् भारवाहनेन प्राणवायुः आनीतः इति आश्वासकरं भवति।