OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 28, 2021

 वाक्सिनस्य प्रथममात्रया गृस्य कोविड्व्यापनं ५०% न्यूनीकृतम् - यू के सर्वेक्षणम्। 

   लण्टन्> आस्ट्रोसैनिका वाक्सिनस्य प्रथममात्रया कुटुंबपरिवारेषु कोविड्व्यापनं ५०% न्यूनीकृतम् इति यू के सर्वेक्षणस्य फलं प्रकाशितम्। प्रथममात्रां स्वीकृत्य सप्ताहत्रयानन्तरं रोगबाधितात् तस्यपरिवारे रोगव्यापनाय सन्दर्भः ३८ -४९% न्यूनः इति पब्लिक् हेल्त् इंग्लन्ट् द्वारा कृते सर्वेक्षणे अवगतम्। २४००० गृहेषु ५७००० परिवारेषु सर्वेक्षणं कृत्वा लब्धं फलं भवति इदम्। ब्रिट्टणस्य वाक्सिनीकरणप्रक्रियया ६० उपरि वयस्कानां गणेषु १०४०० मरणानि रोधितानि इति पूर्वम् अवगतम् आसीत्।