OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 19, 2021

 आविश्वं कोविड्बाधिताः १४.१४कोटिः। 

   वाषिङ्टण्> रविवासरस्य गणनामनुसृत्य आविश्वं कोविड्बाधितानां संख्या १४कोट्यधिक १४लक्षमतीता। रोगबाधया मृतानां संख्या ३० लक्षमतीताः। १२कोट्यधिकाः रोगमुक्तिं प्राप्ताः च। 

  त्रिकोट्यधिक२१लक्षाधिकेषु जनेषु रोगदृढीकृतं यू एस् राष्ट्रमेव रोगव्यापने अग्रस्थं भवति। भारतं, ब्रसील्, फ्रान्स्, रूस्, ब्रिट्टन्, तुर्की, इट्टली, स्पेयीन्, जर्मनी इत्येतेषु राष्ट्रेषु अत्यधिकाः रोगिणः वर्तन्ते। 

 ८७कोटि वाक्सिनं स्वीकृताः - आविश्वं कोविडस्य प्रत्यौषधं स्वीकृतवन्तः जनाः ८७ कोट्यतीताः। शनिवासरपर्यन्त-गणनामनुसृत्य १६५ राष्ट्रेषु ८७ कोट्यधिक८०लक्षं जनाः स्वीकृतवाक्सिनाः सन्ति। किन्तु केषुचन राष्ट्रेषु वाक्सिनवितरणं मन्दगत्यामेव प्रचलति।