OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 3, 2022

 सार्धहोरापर्यन्तम् अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च।

महाराष्ट्रस्य कस्मिंश्चन ग्रामे सार्धहोरापर्यन्तं अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च कुर्वन्ति। 

  अस्मिन् काले शिशवः अपि दूरवाण्यां समयः यापयन्ति। दूरवणीं वा दूरदर्शनं विना क्षणकालमपि उपवेष्टुं न शक्यते। किन्तु इदानीं महाराष्ट्रे सांग्लि जिल्लायां माहत्यांचेवट ग्रामे भवति सार्धहोरा पर्यन्तम् अन्तर्जाल दूरवाण्योः परित्यागः। ग्रामे प्रतिदिनं सप्तवादने 'सयरण्' ध्वनिः भविष्यति। जनानां दूरवाणी दूरदर्शनादयः कीलनाय निर्देशः भवति अयम्। ग्रामणिः  विजयमोहिते भवति अस्य आशयस्य उपज्ञाता।  जनाः सामोदं निर्देशं पालयन्ति। 

कोरोणाकाले छात्राः दूरवाण्याः अधिकोपयोगेन दूरवाण्याश्रिताः अभवन्। अत एव भवति नूतनरीत्या इयं योजना समारब्धा। अनया छात्रान् वाचने लेखने च प्रभावितान् कर्तुं शक्यते इति अधिकारिणः वदन्ति।