OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 3, 2022

 इन्डोनेष्यायां पादकन्दुकक्रीडाङ्कणे संघर्षः - १२५ मरणानि। 

मलाङ् [इन्डोनेष्या]> इन्डोनेष्यायां कञ्चुरुहान् क्रीडाक्षेत्रे पादकन्दुकक्रीडायाः अन्ते आराधकानां मध्ये जाते संघर्षे जनसम्मर्दे च १२५ जनाः मृत्युवशं गताः। क्रीडास्पर्धायाः अन्ते आराधकेषु क्रीडाङ्कणमतिक्रामितेषु आरक्षकैः अश्रुजनकास्त्रं प्रयुक्तम्। एतदासीत् दुरन्तकारणम्। मतेषु बालकाः अपि अन्तर्भवन्ति। 

  शनिवासरनिशाया‌ः अन्तिमयामे आसीत् दुर्घटना। अरीमा एफ् सि क्लब् नामकस्य क्रीडादलस्य गृहाङ्कणं भवति कुञ्चुरुहान् क्रीडाङ्कणम्। शनिवासरे 'पेर्सिबाय सुरबाय' नामकं दलं विरुद्ध्य सम्पन्ने प्रतिद्वन्द्वे अरीमादलं ३ - २ इति क्रमेण पराजितमभवत्।पेर्सिबायं प्रति गृृहाङ्कणे २३ संवत्सराभ्यन्तरे अरीमायाः प्रथमः पराजयः आसीदयम्। पराजयमसहमानाः आराधकाः क्रीडाङ्कणमतिक्रामितवन्तः अक्रमासक्ताः अभवन् च। तान् निरोद्धुं आरक्षकदलेन बलप्रयोगः कृतः।