OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 4, 2022

अमेरिक्कस्य ऐतिहासिकोपलब्धिः। वैद्युतेः साहाय्येन प्रवर्तमानं प्रथमं विमानम् आकाशोड्डयनम् कृतम्।

वाषिङ्टण्> विश्वस्मिन् इदंप्रथमतया वैद्युतेः साहाय्येन प्रवर्तमानं  अमेरिक्केन निर्मितं विमानं प्रथमं आकाशे उड्डयनं कृतम्। अमेरिक्कस्य ऐतिहासिकोपलब्धिः भवति एषः। आलीस् इति नामधेयं प्रथमं सम्पूणवैद्युतयात्रिकाविमानं वाषिङ्टण् ग्रान्ट् कौण्टि अन्ताराष्ट्रिय-विमानपत्तनात् सप्तंबर्२९ तमे दिने प्रातःकाले सप्तवादने आकाशे उड्डयनं कृतम्। नव यात्रिकाः द्वौ वैमानिकौ इति क्रमेण यात्रां कर्तुं विमाने सुविधा सज्जीकृता अस्ति। अष्ट निमेषं निरीक्षणोड्डयनानन्तरं विमानं सुरक्षितरीत्या भूस्पर्शमकरोत्। आकाशोड्डयनसन्दर्भे इन्धनबहिर्गमनेन जायमानं अन्तरिक्षमलिनीकरणं परित्यज्य भाविनि संशुद्धान्तरिक्षसृजनमेव वैद्युतविमानस्य लक्ष्यम्।