OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 10, 2026

 ऐ ओ ए प्रतिनिधिनिर्वाचनं

पि टि उषा पराजिता; अज्जू बोबी जोर्ज् प्रथमस्थाने।

पि टि उषा, अज्जू बोबी जोर्जः च। 

नव दिल्ली> इन्डियन् ओलिम्पिक्स् असोसियेषन् [ I O A ]संस्थायाः महिलाप्रतिनिधिस्थानाय विधत्ते निर्वाचने वर्तमानीना अध्यक्षा केरलीया च पि टि उषा पराजिता अभवत्। किन्तु केरलीया तथा भूतपूर्वा कायिकक्रीडिका च अज्जू बोबी जोर्ज् प्रथमस्थानम् अवाप। 

  आवश्यकानि चत्वारि स्थानानि प्रति षट् पूर्वीय महिलाकायिकक्रीडिकाः स्पर्धितवत्यः। अञ्जू ५३ मतानि संप्राप्य प्रथमस्थानं प्राप। उषा तु ४० मतैः  पञ्चमस्थानं प्राप्तवती। 

  इदानीं निर्वाचिताः चतस्रः सदस्याः ऐ ओ ए संस्थायाः अध्यक्षपदनिर्वाचने स्पर्धितुं योग्याः भविष्यन्ति। उषावर्यायाः पराजयेन द्वितीयवारमपि अध्यक्षपदमिति तस्याः अभिलाषः अस्तं गतः।