रोहित् शर्मणः पुनरपि शतकम्।
राञ्ची > दक्षिणाक्रिक्कादलेन सह प्रवृत्तमानायां तृतीयक्रिकेट्क्रीडायां भारतस्य रोहित् शर्म शतकं (११७*) प्रापयत्। वृष्टिवशात् शीघ्रम् अवसिते प्रथमदिने रोहित् शर्मणः प्रकटनेन भारतं २२४/३ इत्यङ्कैः सुशक्तं वर्तते। शर्मणः उत्तमसहयोगं कृत्वा उपनायकः अजिङ्क्य रहाने (८३*) क्रीडन् वर्तते। ३९ धावनाङ्काभ्यन्तरे नायकस्य कोह्लेः सहितं त्रयः बहिर्गताः आसन्। ततः आरब्धः शर्म-रहाने सहयोगः १८५ धावनाङ्कैः सह क्रीडन् वर्तते। वृष्टिः शान्ता चेत् द्वितीयदिने भारतेन महान् अङ्कः प्राप्तुं शक्यते च।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, October 20, 2019
सैनिकविद्यालयेषु अध्ययनाय बालिकाभ्यः अपि अनुज्ञा।
नवदिल्ली> सैनिकविद्यालयेषु बालिकाः अपि अध्येतव्य इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन प्रदत्तः। 2020-21 अध्ययन संवत्सरादारभ्य निर्देशोऽयं प्रबलं भविष्यति। वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण आसीत् बालिकानां प्रथमप्रवेशः। अस्य योजनायाः सम्पूर्णविजयः अभवत् इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति एन्.डि.टि.वि. आवेदयति।
परियोजनायाः क्रियान्वयनाय आवश्यकाः सुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च विना विलम्बं भविष्यति। केन्द्रसर्वकारस्य 'बेठी पठाओ वेठी बचाओ' इति आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्य भवति नूतनोऽय निर्णयः। आराष्ट्रं भारते 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे इदं प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रविष्टाः आसन्।
Saturday, October 19, 2019
केरलेषु संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्।
![]() |
कोष़िक्कोट् जनपदस्य प्रतिषेधमेलनम्। |
![]() |
एरणाकुलम् जनपदस्य मेलनम् |
जनपदस्तरीयेषु शैक्षिकपरिशीलनकेन्द्रेषु संस्कृविभागस्यारम्भः इत्यायारभ्य विविधानां त्रयोदश (१३) समस्यानाम् उचितः परिहारः सर्वकारेण कार्यः इति अभ्यर्थ्य आसीत् प्रतिषेधदिनाचरणम्। प्रतिषेधमेलनेषु के एस् टि एफ् डि&पि नेतारः नेतृत्वम् अवहन्।
उत्तरप्रदेशे कलालयेषु विश्वविद्यालयेषु च जङ्गमदूरवाणी निरोधिता।
लख्नौ> उत्तरप्रदेशराज्ये समस्तविश्वविद्यालयेषु तथा कलालयेषु च पठनानुकूलान्तरिक्षस्य वर्धनाय आदित्यनाथसर्वकारस्य परिष्कारः। तदर्थम् सर्वकारेण राज्यस्य उन्नतशैक्षिकसमितेः निर्देशानुसारं विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाण्याः निरोधनं कृतं वर्तते। एतत्सम्बन्ध्य आगतं विज्ञापनमनुसृत्य अध्यापकानध्यापकैः छात्रैः च विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाणी न उपयोक्तव्या।
चतुर्मासाभ्यन्तरे भीकरप्रवर्तनानि समापनीयानि - पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य अन्तिमं व्यवस्थाप्रख्यापनम्।
पारीस् > भीकरप्रवर्तनेभ्यः दीयमानम् आर्थिकं साह्यं चतुर्मासाभ्यन्तरे समापयितुं पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य सम्मर्दः। पूर्वं दत्तायाः कर्मपद्धतेः प्रवृत्तिपथमानयनम् अचिरादेव करणीयम्, अन्यथा प्रत्याघातः कठिनः भवेत् इत्यपि आर्थिकदौत्यसंघेन शासितम्। २०५ राष्ट्राणां तथा ऐ एम् एफ्, यु एन्, विश्ववित्तकोशः इत्येतेषां प्रतिनिधीनां मेलनानन्तरमेव अन्तिमं व्यवस्थाप्रख्यापनम् अभवत्। प्रस्तुतमेलने पाकिस्थानं ग्रे पट्टिकायां स्थितीकृतम्।
Friday, October 18, 2019
ओक्टोबर् २२-तमे दिनाङ्के वित्तकोशकर्मकराणां देशीयसंग्राम:।
नवदहली > ओक्टोबर् २२-तमे दिनाङ्के राष्ट्रे समस्तेषु वित्तकोशेषु कर्मकराः कर्मणः विरामं स्वीकुर्वन्ति। वित्तकोशकर्मकराणां द्वाभ्यां संस्थाभ्यां नेतृत्वे एव संग्रामाय आह्वानं कृतं वर्तते। संग्रामे राष्ट्रस्य वित्तकोशकर्मकराः पूर्णतया भागभागिनः भविष्यन्तीति अखिलेन्ट्या बाङ्क् एम्प्लोयीस् असोसियेषन्, बाङ्क् एम्प्लोयीस् फेटरेषन् ओफ् इन्ट्या इत्यनयोः द्वयोः संस्थयोः नेतारः वार्तामेलने अवदन्।
अन्तरिक्षमलिनीकरणम्-दहल्यां पुनरपि वाहननियन्त्रणम्।
नवदहली> राजधानीनगर्याम् अन्तरिक्षमलिनीकरणं रूक्षतां प्राप्ते सन्दर्भे पुनरपि वाहनसंख्याम् एक-द्वयरीत्या परिगणय्य परिष्काराय दहलीसर्वकारः। नवम्बर् मासस्य ४ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं परिष्कारः अनुवर्तते। नियन्त्रणमिदं न केवलं दहलीस्थानां वाहनानाम् अपि तु दहलीं सन्दर्श्यमानानां सर्वेषामपि वाहनानां बाधकं भवति। प्रातः ८ खण्डादारभ्य रात्रौ ८ खण्डापर्यन्तं वाहननियन्त्रणं भविष्यति। किन्तु अस्मात् नियन्त्रणपरिष्कारात् द्विचक्रिकाः,दिव्याङ्गानां वाहनानि,स्त्रीणां वाहनानि च परित्यक्तानि भवन्ति।
कोह्ल्येः नेतृत्वे भारतेन इतोऽपि अग्रेसर्तव्यम् - गांगुलिः।
कोल्कत्ता > अन्ताराष्ट्रक्रिकेट्समितेः (ऐ सि सि) बृहत्तरासु सपर्यासु विजयं प्राप्तुं कोह्लिः संघः च श्रद्धां करोतु इति नियुक्त बि सि सि ऐ अध्यक्षः सौरव् गांगुलिः। 'तदर्थं महान् परिश्रमः करणीय एव,तदेव मम मुख्यं लक्ष्यम्' तेन स्पष्टीकृतम्। इतःपूर्वं २०१३ तमे वर्षे एव भारतेन एका ऐ सि सि सपर्या प्राप्ता वर्तते।
Thursday, October 17, 2019
बिहारे साङ्क्रमिकरोगाः। २००० जनाः चिकित्सायां वर्तन्ते।
पट्न> प्रलयानन्तरं बिहारे रोगाः संक्रमन्ति। डेङ्कुज्वरेण १९२३ जनाः चिकित्सायां वर्तन्ते। पट्ना देशे भवन्ति ज्वरबाधितेषु अधिकाः। १४१० जनाः ज्वर बाधिताः सन्ति इत्यस्ति आवेदनम् I
कङ्कड् बाग्, गर्दानि बाग्, डाक् बंग्लाव्, एस् के पुरि इत्येतेषु निम्न प्रदेशेषु डेङ्कु ज्वरः आवेदितः। अतिवृष्ट्या, प्रलयेन च प्रदेशोऽयं जले निमग्ना आसीत्। प्रलयानन्तरावस्थायाः अवलोकनाय मुख्यमन्त्रिणा नीतीष कुमारेण रविवासरे उन्नत-तलोपवेशनं निमन्त्रितम् आसीत्।
काश्मीरे सङ्घर्षे त्रयः आतङ्गवादिनः मृताः।
श्रीनगर्> काश्मीरे अनन्तनागजनपदे सुरक्षासेनया त्रयः आतङ्गवादिनः हताः। एते सर्वेऽपि तद्देशीयाः एव भवन्ति। अनन्तनाग्, बिजबेहरा,कुल्गाम् इत्यादिभ्यः जनपदेभ्यः आतङ्गवादिसंघेषु प्रवर्तमानाः अबूहनान्, साहिद् अहम्मद् लाण्, आखिब् अहम्मद् हाजम् इत्यादयः एव हताः। दक्षिणकाश्मीरे प्रवृत्ते अन्यस्मिन् सङ्घर्षे एकः कर्मकरः आतङ्गवादिभिरपि हतः। सन्दर्भेऽस्मिन् हयात् अहम्मद् भट्ट् इति नामकः काश्मीरवासी आरक्षकबन्धने अभवत् च।
Subscribe to:
Posts (Atom)