OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 20, 2019

सैनिकविद्यालयेषु अध्ययनाय बालिकाभ्यः अपि अनुज्ञा।
  नवदिल्ली> सैनिकविद्यालयेषु बालिकाः अपि अध्येतव्य इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन प्रदत्तः। 2020-21 अध्ययन संवत्सरादारभ्य निर्देशोऽयं  प्रबलं भविष्यति। वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण आसीत् बालिकानां प्रथमप्रवेशः। अस्य योजनायाः सम्पूर्णविजयः अभवत् इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति  एन्.डि.टि.वि. आवेदयति।

  परियोजनायाः क्रियान्वयनाय आवश्यकाः सुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च विना विलम्बं भविष्यति। केन्द्रसर्वकारस्य 'बेठी पठाओ वेठी बचाओ' इति आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्य भवति  नूतनोऽय निर्णयः। आराष्ट्रं भारते 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे इदं प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रविष्टाः आसन्।