OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 17, 2019

काश्मीरे सङ्घर्षे त्रयः आतङ्गवादिनः मृताः।
   श्रीनगर्> काश्मीरे अनन्तनागजनपदे सुरक्षासेनया त्रयः आतङ्गवादिनः हताः। एते सर्वेऽपि तद्देशीयाः एव भवन्ति। अनन्तनाग्, बिजबेहरा,कुल्गाम् इत्यादिभ्यः जनपदेभ्यः आतङ्‌गवादिसंघेषु प्रवर्तमानाः अबूहनान्, साहिद् अहम्मद्‌ लाण्, आखिब् अहम्मद्‌ हाजम् इत्यादयः एव हताः। दक्षिणकाश्मीरे प्रवृत्ते अन्यस्मिन् सङ्घर्षे एकः कर्मकरः आतङ्गवादिभिरपि हतः। सन्दर्भेऽस्मिन् हयात् अहम्मद् भट्ट् इति नामकः काश्मीरवासी आरक्षकबन्धने अभवत् च।