OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 18, 2019

ओक्टोबर् २२-तमे दिनाङ्के वित्तकोशकर्मकराणां देशीयसंग्राम:।
    नवदहली > ओक्टोबर् २२-तमे दिनाङ्के राष्ट्रे समस्तेषु वित्तकोशेषु कर्मकराः कर्मणः विरामं स्वीकुर्वन्ति।  वित्तकोशकर्मकराणां द्वाभ्यां संस्थाभ्यां नेतृत्वे एव संग्रामाय आह्वानं कृतं वर्तते। संग्रामे राष्ट्रस्य वित्तकोशकर्मकराः पूर्णतया भागभागिनः भविष्यन्तीति अखिलेन्ट्या बाङ्क् एम्प्लोयीस् असोसियेषन्, बाङ्क् एम्प्लोयीस् फेटरेषन् ओफ् इन्ट्या इत्यनयोः द्वयोः संस्थयोः नेतारः वार्तामेलने अवदन्।