OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 29, 2025

 काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः  आयोक्ष्यते। 

  नवदिल्ली> ओपरेषन् सिन्दूरं समाप्य सप्ताहान्तरं काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः ( moc drill ) आयोक्ष्यते। 

हरियाणासर्वकारः २२ (द्वाविंशतिः) जनपदेषु ओप्परेषन् षील्ड् इति नामनि अनुकृत्यभ्यासः आयोक्ष्यते इत्यस्ति प्रतिवेदनम्। मेय् मासस्य एकोनत्रिंशत् दिनाङ्के भवति कार्यान्वयनम्।

Wednesday, May 28, 2025

 नूतनरीत्या गासायां साहाय्यवितरणं समारब्धम्। 

प्रतिकूलतया हमासः। 

डेयर् अल् बला> गासायाम् इस्रयेलस्य अङ्गीकारेण नूतनं साह्यवितरणसम्प्रदायः प्रवर्तनमारब्धः। अमेरिक्कायाः अनुग्रहेण प्रवर्तमानस्य 'जि एछ् एफ्' [The Gassa Humanitarian Foundation] इत्यस्य संघटनस्य नियन्त्रणे भवतीदं साह्यवितरणम्। 

  निश्चितस्थानेषु वितरणकेन्द्राणि स्थापयित्वा निश्चितकालाय भक्ष्यवस्तूनि शुचित्वपालनसम्भारान् च प्रतिपरिवाराय ददाति। वितरणकेन्द्राणि इस्रयेलसैन्यस्य निरीक्षणे भविष्यन्ति। 

  संयुक्तराष्ट्रसंघटनस्य प्रतिकूलतामतीत्य जि एछ् एफ् संघटनेन चत्वारि केन्द्राणि सोमवासरे आरब्धानि। किन्तु एतानि इस्रयेलसैनिकशिबिराणां समीपे एव।

  नूतनसंविधानेन सह सहकारिता न कार्या इति हमासेन पालस्तीनीयाः निर्दिष्टाः। गासीयान् बलात्कारेण अन्यत्र नेतुमुद्यमः भवत्येष इति हमासीयः आरोपयति। २३लक्षं गासीयेभ्यः भक्षणप्रदानाय एतत्संविधानमपर्याप्तमिति तेषाम् आरोपणम्।

 एष्यीयकायिकक्रीडा

गुल् वीरसिंहस्य सुवर्णपतकम्। 

१०,०००मीटर् धावने सुवर्णं प्राप्तवान् गुल वीरसिंहः। 

गुमी> दक्षिणकोरियायां गुमिनगरे आरब्धायाम् एष्यीयकायिकक्रीडायां प्रथमे दिने भारतस्य सुवर्णशोभा। पुरुषाणां दशसहस्रमीटर् मिते धावनप्रतिद्वन्द्वे उत्तरप्रदेशीयः गुल् वीरसिंहः प्रथमस्थानं प्राप्तवान्। २८ मिनिट् ३८. ६३ सेकन्ड् समयं स्वीकृत्य आसीत् तस्य सुवर्णप्राप्तिः। रजत-कांस्यपतके जापानक्रीडकाभ्यां प्राप्ते।

  २० कि मी  पदचलनस्पर्धायां तमिलनाटनिवासी सेर्विन् सेबास्ट्यनः  भारताय कांस्यपतकं प्राप्तवान्। एकहोराधिक २१ मिनिट् १३. ९० सेकनिड् समयः चलनसमाप्त्यर्थं तेन स्वीकृतः।

 दक्षिणपूर्वेष्याराष्ट्रेेषु कोविड्रोगः व्याप्यते। 

भारते  कोविड्बाधिताः सहस्रमतीताः। 

नवदिल्ली> एष्याभूखण्डस्य दक्षिणपूर्वीयराष्ट्रेषु कोविड् वैराणुः व्याप्यते इति केन्द्रस्वास्थ्य-कल्याणमन्त्रालयेन निगदितम्। भारते कोविड्बाधितानां संख्या नवाधिकसहस्रमभवत्। 

  राष्ट्रे अधिकतमं कोविड्बाधिताः केरले वर्तन्ते  - त्रिंशदधिकचतुश्शतम्। महाराष्ट्रं - २०९, दिल्ली - १०४, गुजरात् - ६९, कर्णाटकं -४७ इत्येवं इतरेषु राज्येषु कोविड्बाधिताः। राजस्थानं, यू पि, वंगराज्येष्वपि कोविड्बाधा दृश्यते। किन्तु राष्ट्रे अष्टादशवयस्कातीताः सर्वे प्रतिरोधवाक्सिनं स्वीकृतवन्तः इत्यतः आशङ्कायाः स्थानं नास्तीति स्वास्थ्यमन्त्रालयेन सूच्यते।

Tuesday, May 27, 2025

 एष्यन् कायिकक्रीडा दक्षिणकोरियायां समारब्धा। 

गुमी> एष्यायाः कायिकस्पर्धापरम्परा दक्षिणकोरियायां गुमी इत्यत्र  कुजवासरे समारब्धा। पञ्चदिनात्मिकायाम् अस्यां वीरताप्रदर्शनस्पर्धायां भारतात् नवपञ्चाशत् क्रीडकाः भागं कुर्वन्ति। विश्ववीरतास्पर्धायाः भागभाक्त्वम् एतां परम्परामाश्रीयते इति एष्याकीडायाः प्राधान्यम्।

 "भीकरतां विरुध्य अग्रे चरन्तु" - पाकिस्थानीयान् प्रति मोदिनः आह्वानम्। अहम्मदाबादः> ये स्वराष्ट्रे भीकरतां प्रवर्धयन्ति तान् विरुध्य युगपत् अग्रे चरन्तु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी पारिस्थानजनतां प्रति आह्वयत्। गुजराते  पाकिस्थानस्य सीमा कच्छ् इत्यत्र भुज् प्रदेशे पञ्चाशत् सहस्राधिक कोटिरूप्यकाणां विविधाः परियोजनाः उद्घाटयन् भाषमाणः आसीत् नरेन्द्रमोदी। 

 "भीकरता इति युष्माकं सर्वकारस्य सैन्यस्य च धनागममार्गः अस्ति। एतत् प्रतिरुध्य प्रवर्तिष्यते तर्हि सुखेन सन्तोषेण च शान्तिपूर्णं जीवनं साध्यमस्ति। नो चेत् अस्माकं  नालिकाशस्त्राणि अभिमुखीक्रियन्ताम्' -  प्रधानमन्त्री संस्मारितवान्।

  भारतमद्य विश्वस्मिन् चतुर्थे आर्थिकशक्तौ सम्पन्ने युष्माभिः किं लब्धमिति पाक्जनतायाः दारिद्र्य-निरक्षरत-जीवनसङ्कटारक्षितावस्थादिकमुद्दिश्य   नरेन्द्रमोदी अपृच्छत्। 'ओपरेषन् सिन्दूरं' पाकिस्थानाय प्रबोधनमिति मोदिना स्मारितम्।

 महानौकानिमज्जनम्

३४ वस्तुधारकाणि कोल्लं समुद्रतटं सम्प्राप्तानि।

कोल्लं तटे प्राप्तेषु धारकेषु अन्यतमम्। 

कोल्लं> शनिवासरे कोच्चिसमीपे आरबसमुद्रे निमग्नायाः एम् एस् सि एल् सि -३ नामिकायाः  महानौकायाः बहिर्गतानि ४० वस्तुधारकेषु [containers] ३४ संख्याकानि कोल्लं समुद्रतीरं सम्प्राप्तानि। जनपदाधिकारिणः नेतृत्वे आरक्षकसंघः इतरे अधिकारिणश्च स्थानं प्राप्य अनन्तरप्रक्रमान् स्वीकृतवन्तः। 

  कोल्लं जनपदस्थेषु चवरा, परिमणं, शक्तिकुलङ्ङरा प्रदेशस्थेषु तीरेषु आसन् वस्तुधारकाणि प्राप्तानि। धीवराणां साहाय्येन आरक्षकैः तानि सुरक्षितस्थानं नीतानि। कतिपयेषु धारकेषु शुष्काणि चायपत्राणि [Green Tea], मुद्रणार्थमुपयुज्यमानानि कागदभाण्डानि [News print roll], वस्त्राणि च आसन्निति निगद्यते।

Monday, May 26, 2025

 वर्षाकालदुष्प्रभावः - केरले षट् मरणानि। 

व्यापकनाशः। 

कोच्ची> केरले द्वित्राणां दिनानाम् अतिवृष्टिकारणात् षट् जनाः मृत्युमुपगताः। सर्वत्र व्यापकतया कष्टनष्टानि जातानि। 

  अतितीव्रवृष्ट्या चण्डवातेन च खण्डितात् विद्युत्पंक्तितः विद्युताघातेन कोष़िक्कोटे द्वौ छात्रसोदरौ, मलप्पुरं जनपदे कश्चन उच्चतरछात्रश्च अकालमृत्युं प्रापुः। वैद्युतपङ्क्तिः प्रभञ्ज्य जले पतितमासीत्। वटकरप्रदेशे चलन्त्याः द्विचक्रिकायाः उपरि केरवृक्षं पतित्वा ६४ वयस्कः मृतः। 

  कोष़िक्कोट् प्रदेशे जलपूर्णां कुल्यां पतित्वा तमिलनाट् निवासी मृतः। इटुक्की जनपदे वृक्षखण्डं पतित्वा मध्यप्रदेशीया मृत्युमुपगता। 

  आकेरलं बहुत्र वृक्षप्रपातेन बहूनि भवनानि विशीर्णानि। मृत्प्रपातेन गतायातसुविधा स्थगिता।

 केरलमभिव्याप्य चतुर्षु राज्येषु उपनिर्वाचनं विज्ञापितम्। 

मतदानं जूण् १९ ; मतगणना  जूण् २३। 

नवदिल्ली> राष्ट्रस्य पञ्चसु विधानसभामण्डलेषु जूण् मासस्य एकोनविंशे दिनाङ्के उपनिर्वाचनं विधातुं केन्द्रनिर्वाचनायोगेन निर्णीतम्। व्यवहारनियमः प्राबल्यमागतः। 

 गुजराते काडि, विसवदरम् इति मण्डलद्वये, केरलं, पञ्चाबः, पश्चिमवंगः इत्येतेषु राज्येषु यथाक्रमं निलम्बूरं, लुधियाना, कालिगञ्च् इति  एकैकस्मिन् मण्डले च उपनिर्वाचनं विधास्यति। मतगणना त्रयोविंशे दिनाङ्के भविष्यति।

 आरबसमुद्रे वाणिज्यमहानौका न्यमज्जत्। आशङ्कायां केरलतीरः।

महानौकायाः २४ कर्मकराः नौसेनया रक्षिताः।

आरबसमुद्रे निमज्जा महानौका शनिवासरे अवसर्पितावस्थायाम्।

 

कोच्ची> केरलतीरात् अष्टत्रिंशत् 'नोटिकल् मैल्' दूरे आरबसमुद्रे लैबीरियाराष्ट्रस्य स्वामित्वे वर्तमाना पण्यमहानौका 'एम् एस् सि एल्सा - ३' नामिका समुद्रे निमज्जा। महानौकायाः आहत्य २४ कर्मकरानपि भारतस्य नौसेना संरक्ष्य कोच्चीमानयत्। 

  तूत्तुकुटी - विष़िञ्ञं - कोच्ची - मङ्गलुरु समुद्रमार्गेण सामान्येन सेवां क्रियमाणा महानौका भवत्येषा। महानौकायाम् आहत्य त्रिचत्वारिंशदधिक षट्शतं [६४३] धारकाणि  [containers] आसन्। तेषु दुर्घटनाकारकाणि रासवस्तूनि , तैलेन्धनानि च अन्तर्भवन्तीति सूच्यते। अतः   अनन्तपुरीतः कोष़िक्कोट्पर्यन्तं समुद्रतीरः  आशङ्कायां वर्तते। शनिवासरे महानौकायाम् अवसर्पितायां ४० धारकाणि समुद्रम् उत्पात्य स्यन्दन्ते स्म। १२ धारकेषु हानिकराणि रासवस्तूनि सन्ति। महानौकायाः इन्धनं समुद्रे व्यापृतं वर्तते। अतः एषु प्रदेशेषु  मत्स्यबन्धनं निरुद्धमस्ति।

Sunday, May 25, 2025

 वर्षाकालः निश्चितकालात्पूर्वमेव सम्प्राप्तः। 

अनन्तपुरी> अतिवृष्ट्या चण्डवातेन समं दक्षिणपश्चिमवर्षाकालः [मणसूण् वाताधिष्ठितवर्षाः] व्यवस्थितसमयात् अष्टदिनेभ्यः पूर्वं केरलं सम्प्राप। दिनद्वयम् अतितीव्रवृष्टेः सम्भावना विद्यते इति पर्यावरणविभागेन निगदितम्। त्रिंशद्दिनाङ्कपर्यन्तं महती वृष्टिर्भविष्यति। 

  रविवासरे मलप्पुरं, कोष़िक्कोट्, कण्णूर्, कासरगोड् जनपदेषु राक्तजागरूकता निर्दिष्टा। इतरेषु जनपदेषु ओरञ्चजागरूकता अपि विहिता।

 राहुल गान्धी जम्मु काश्मीरं सन्दृष्टवान्। 

पूञ्च् निवासिनां कृते आश्वासवचनानि प्रदत्तानि। 

पूञ्च् प्रदेशस्थैः छात्रैः सह राहुल गान्धी । 

जम्मु काश्मीरं> पाकिस्थानस्य आक्रमणे ये वासस्थानानि विनाश्य सङ्कटमनुभवन्ति, ये व्रणिताः जाताः तान् समाश्वासयितुं राष्ट्रस्य विपक्षनेता राहुल गान्धी गतदिने जम्मु काश्मीरस्य सीमाग्रामान् सन्दृष्टवान्। 

  पाकिस्थानस्य अग्निशस्त्राक्रमणात् भयचकितान् पूञ्च् निवासिनः  बालकान् राहुलः समाश्वासितवान्। द्वौ छात्रौ अभिव्याप्य अष्टविंशति जनाः अत्र मृताः। उपसप्ततिजनाः क्षताः जाताः। तान्  विपक्षनेता आश्वासवाक्यैः स्वप्रेमं प्रकाशितवान्।

 शुभमान् गिलः निकषक्रिकट् दलस्य नायकः। 

शुभमान् गिलः। 

मुम्बई> भारतस्य निकषक्रिकट् दलस्य नायकरूपेण श्रेष्ठक्रीडकः शुभमान् गिलः नियुक्तः। मुख्यनिर्णेता अजित् अगार्करः नियुक्तिमुद्घोषितवान्। 

  निकषस्पर्धायाः निवृत्तस्य रोहित शर्मणः स्थाने अस्ति गिलस्य नियुक्तिः। जूण् विंशे  दिनाङ्के आरभ्यमाणायाम्  इङ्लाण्टं विरुध्य निकषस्पर्धापरम्परायां गिलस्य नेतृत्वे भारतं क्रीडिष्यति। 

  ऋषभपन्तः उपनायको भविष्यति। अष्टादशाङ्गोपेतं दलमपि विज्ञापितम्।

Saturday, May 24, 2025

  हार्वर्ड्-विश्वविद्यालये विदेशीयविद्यार्थिनां प्रवेशं निरुद्ध्य ट्रम्पस्य प्रशासनम्।

   ट्रम्प्-शासनस्य नवीनया नीत्या हार्वर्ड्-विश्वविद्यालये अध्ययनं कुर्वन्तः विदेशीयाः छात्रेभ्यः प्रवेशं लब्धुं न शक्नुवन्ति। भारतदेशात् अपि आगतान् छात्रान् इयं नीतिः प्रबाधते।

  अमेरिकादेशे तेषां छात्र-वीसाधिकारः नष्टः भविष्यति चेत् तैः अन्यस्मिन् संस्थायां स्थानपरिवर्तनं करणीयम् इति सूचना अपि प्रदत्ता। अमेरिकस्य गृहमन्त्रालयस्य अनुसारं, हार्वर्ड्-विश्वविद्यालयः यहूदविद्वेषं चीनदेशस्य कम्युनिष्ट्-पार्टीसंगं च प्रोत्सहयति इत्यपवादाः अपि दत्ताः। 

  ट्रम्प्-शासनम् आदेशं दत्तवन् यत् हार्वर्ड्-विश्वविद्यालयेन तत्र विद्यमानानां सर्वेषां विदेशीय विद्यार्थिनां विवरणानि त्रिदिनेभ्यः अन्तः समर्पयितव्यानि। हार्वर्ड्-विश्वविद्यालयः स्पष्टीकरणं दत्तवान् यत् एषा नीतिः न विधिसम्मता, अपि तु वैयक्तिकप्रतिकारस्य रूपेण कृतः अन्यायः। शासनस्यायं निर्णयः सहस्रशः छात्रान् प्रबाधते इति।

 पोलण्ट् कायिकक्रीडा

नीरज चोप्राय रजतम्। 


वार्सा> पोलण्टराष्ट्रे जानुस् कुसोसिन्की कायिकक्रीडास्पर्धासु कुन्तप्रक्षेपणे भारतस्य नीरज चोप्रः रजतपतकं सम्प्राप्तवान्। तस्य षष्ठे उद्योगे ८४. १४ मीटर् दूरं प्रक्षिप्य एव द्वितीयस्थानलब्धिः। प्रथमस्थानं जर्मनेः जूलियन् वेबर् प्राप। ८६. १२ मीटर् सः प्रक्षिप्तवान्। 

 गतसप्ताहे दोहायां डयमण्ट् लीग् कायिकक्रीडायां नीरजः ९०. २३ मीटर् प्रक्षिप्य द्वितीयस्थानं प्राप्तवान् आसीत्। तादृशं प्रागत्भ्यं प्रदर्शयितुं पोलण्टे तेन न शक्यते स्म।

 गासायां लक्षशः जनाः दौर्भिक्षामनुभवन्ति। 

युद्धविरामाय इस्रयेलस्य उपरि संपीडनम्। 

गासा सिटी> गासां संगृहीतुं इस्रयेलेन युद्धे अनुवर्तिते लक्षशः जनाः भोज्यवस्तूनि अभिव्याप्य अवश्यवस्तुभ्यः महान्तं क्लेशमनुभवन्ति। भोज्यानि पानजलानि च अलब्ध्वा बालकाः मृतप्रायाः वर्तन्ते। महिलानां शिशूनां च रोगप्रतिरोधशक्तिः विनष्टा। 

  मार्चमासतः गासायाम् इस्रयेलेन सम्पूर्णोपरोधः विधत्तः इत्यस्मादेव जनानां सङ्कटस्य हेतुः। नवसहस्रं बालकाः इदानीं पोषकाहारस्य क्षयेन परिचर्यायां वर्तन्ते इति यूणिसेफ् संस्थया सूच्यते। किन्तु तादृशाः ७१,००० बालकाः सन्तीति अन्यया संस्थया सूच्यते।

 केरले अतितीव्रवर्षः भविष्यति। 

जनपदद्वये रक्तजागरूकता, नवसु जनपदेषु ओरञ्च् जागरूकता।

अनन्तपुरी> मण्सूण् वर्षाकालस्य प्रारम्भतया केरले अतितीव्रवर्षः कल्पितः। शनिवासरे कण्णूर् कासरगोड् जनपदयोः अतितीव्रवर्षस्य  रक्तजागरूकता उद्घोषिता। अनन्तपुरीमभिव्याप्य नवसु जनपदेषु ओरञ्च् जागरूकता प्रख्यापिता। 

  इतःपर्यन्तं आकेरलं तीव्रवर्षः अनुभूयते। वर्षदुष्प्रभावे द्वौ मृत्यू अभवताम्। बहुत्र झंझावातेन कष्टनष्टानि अजायन्त।

Friday, May 23, 2025

 संयुक्तराष्ट्रसंघे भारतस्य कठोरं प्रत्युत्तरम् ‘पाकिस्थानः भीकरवादिनः रक्षति’ इति आरोपः।

   संयुक्तराष्ट्रसंघे पाकिस्थानस्य प्रतिनिधिना सिंधुनदी-जलसन्धिं उद्धृत्य "जलम् जीवनम् अस्ति, न तु युद्धाय आयुधम्" इत्युक्ते, भारतः तीव्रं प्रत्युत्तरं प्रदत्तवान्।

    भारतेन उक्तम् - पाकिस्थानः दिर्घकालादारभ्य प्रायेण- भीकरप्रवर्ततेन भारतं पीडयति। मुम्बई-आक्रमणं, पुलवामा-हिंसा च एतस्य स्पष्टानि प्रमाणानि। भारतस्य विकासं विघ्नं कर्तुम् एव पाकिस्थानस्य प्रयत्नः। भीकारान् प्रति आश्रयं दत्त्वा, पाकिस्थानः  तान् रक्षति, अपितु सामान्यजनानपि तेषां समं पश्यति। अतः, जन-संरक्षणे येषां दृष्टिः विकृतः, तेषां सामान्यजनरक्षणस्य विषये वक्तुम् अर्हता नास्तीति भारतस्य प्रतिनिधिः संयुक्तराष्ट्रसंघे अवदत्।