OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, September 28, 2016

सार्क् उच्चकोटिः भारतेन बहिष्क्रियते।

नवदिल्ली - उरि भीकराक्रमणे पाकिस्तानस्य भागभागित्वं निस्सन्देहं प्रमाणीकृतम् इत्यतः पाकिस्ताने सम्पद्यमानं दक्षिणेष्याराष्ट्राणाम् उन्नततलसम्मेलनं [सार्क् उच्चकोटिः] भारतेन बहिष्करिष्यते। अयं निश्चयः सार्क् अध्यक्षाय नेपालस्य प्रधानमन्त्रिणे निवेदितः।
  भीकरवादप्रोत्साहनपरः पाकिस्तानस्य पदक्षेपः भवति अस्य निश्चयस्य प्रेरणा इति तस्य राष्ट्रस्य नामोक्तिं विना विदेशमन्त्रालयेन स्पष्टीकृतम्। पाकिस्तानस्य उपरि आगोलप्रेरणाशाक्तीकरणमेव भारतेन लक्ष्यीक्रियते। सार्क् संस्थायां प्रमुखराष्ट्रं भवति भारतम्।
     उन्नतकोटिं संप्राप्तुं अन्यानि कानिचन राष्ट्राण्यपि वैमुख्यं प्रकटितवन्तः सन्ति। बंग्लादेशः , भूट्टानः, अफ्गानिस्तानश्च अस्मिन् गणे सन्ति। नवम्बरस्य ९,१० दिनाङ्कयोरेव १९तमं सार्क् सम्मेलनं इस्लामबादे प्रचालनीयम्।
 RN15 किं जोङ्‌ उनस्य वधाय दक्षिणकोरियस्य पद्धतिः।
 सोल् > उत्तरकोरियस्य स्वेच्छाधिपते: किं जोङ्‌ उनस्य वधाय दक्षिणकोरिया पद्धतिं आविष्करोति इति सूचना। दक्षिणकोरियस्य प्रतिरोधसचिवेन एव विषयेऽस्मिन् विधानसभायां सूचना दत्ता। पद्धतेः पूर्तीकरणाय विशिष्टसेना अपि नियुक्ता इति तेन सूचितम्। शत्रुराज्यस्य आयुधसंविधानानि प्रधानकेन्द्राणि प्रधाननेतारं च हन्तुं पद्धतिः मार्गाः च सन्तीति प्रतिरोधसचिवः हान् मिन् कू विधानसभायाम् अवदत्। उत्तरकोरियेन वारद्वयं कृतम् आणवपरीक्षणमेव दक्षिणकोरियस्य नूतनासूत्रणं प्रति प्रधानं कारणम्।

RN13काश्मीरसमस्यायां विना प्रतिकरणं चैना।
  बीजिङ् > काश्मीरसमस्याविषये चैनायाः सहयोगः पाकिस्थानाय वर्तते इति पाकिस्थानस्य माध्यमै: गतदिने सूचितमासीत्। किन्तु इमां वार्तां प्रति चैनायाः पक्षतः व्यक्तं प्रतिकरणं नैव लब्धम्। काश्मीरसमस्या भारत पाकिस्थानाभ्यां चर्चया परिहरणीया इत्येव चैनाया: विदेशकार्यवक्त्रा सूचितम्। काश्मीरविषये भारत पाकिस्थानयो: मध्ये युद्धः सञ्जातः चेत् चैना पाकिस्थानाय सम्पूर्णसहयोगं दास्यतीत्‍यैव पाक् माध्यमैः सूचितमासीत्। किन्तु माध्यमानां परामर्शोऽयम् अस्माभि: न ज्ञायते इत्येव चैनाया: विदेशकार्यवक्त्रा गेङ् षुवाङ् ह्यः अवदत्।

RN14५०० तमा निकषस्पर्धा-भारतविजय:१९७ धावनाङ्कै:।
  कान्पूर् > भारतस्य ५०० तमनिकषस्पर्धायां भारतं १९७ धावनाङ्‌कैः न्यूसिलाण्टं पराजयत्। ४३४ धावनाङ्काः इति लक्ष्यं प्रति क्रीडामारब्धस्य न्यूसिलान्टस्य सर्वेऽपि क्रीडकाः २३६ धावनाङ्केषु बहिर्गताः। भारताय अश्विनः ६ घटकग्रन्थीः प्राप्तवान्। न्यूसिलान्ट् क्रीडकेषु ८० धावनाङ्कान् प्राप्तवान् लूक् रोञ्जी एव उन्नतः। स्पर्धायाः उत्तमक्रीडकाय पुरस्कारः भारतस्य रवीन्द्रजडेजया प्राप्तः। तथा च भारतं निकषस्पर्धापरम्परायां १-० इत्यनुपाते अग्रे वर्तते।

Tuesday, September 27, 2016

 RN 10पारीस् उभयपक्षनिर्णय: गान्धिजयन्त्याम्।
कोष़िक्कोट् (केरलम्) > आगोलतापननियन्त्रणात्मकः पारीस् सन्धिः महात्मागान्धिनः जन्मदिने ओक्टोबर् द्वितीयदिने साक्षात्क्रियते इति प्रधानमन्त्री नरेन्द्रमोदी। भाजपा दलस्य देशीयनिर्वाहकाधिवेशने एव प्रधानमन्त्रिणः इदं प्रख्यापनम्। प्रकृतिविभवानाम् अमितोपयोगः अस्मान् नाशमुखमेव नयति, भौमतापस्य २ एककात् वर्धनं प्रतिरोद्धुमेव विश्वराष्ट्राणां अधुनातनचिन्ता, २ एककात् उपरि भौमतापवर्धनं भारतस्य समुद्रतीरप्रदेशान् प्रतिकूलतया बाधते- प्रधानमन्त्रिणा सूचितम्। अतः विना विलम्बं भारत-पारीस् सन्धिः गान्धिजयन्तीदिने एव साक्षात्क्रियते इति मोदी अवदत्।

 RN11'मिका' परीक्षणं विजयप्रदम्।
नवदहली > प्रतिरोधमण्डलस्य प्रबलीकरणाय 'मिका' अपि। आकाशात् विक्षेपणयोग्य: दीर्घदूरक्षेपणायुध: 'मिका' भारतेन परीक्षितः। परीक्षणमिदं विजयप्रदम् आसीदिति प्रतिरोधमन्त्रालयेन सूचितम्। क्षेपणायुध: लक्ष्यस्थानं प्राप्य कृत्यनिर्वहणमकरोत् इत्यपि मन्त्रालयः विशदयति। मिराष्-२००० विमानादेव मिका क्षेपणायुध: परीक्षित:। राफेल् युद्धविमानादपि अस्य परीक्षणं साध्यमिति मन्त्रालयः सूचयति।

RN12उरी भीकराक्रमणम् - एकः सैनिकोऽपि मृतः।
 श्रीनगर् > उरी सैनिककेन्द्राक्रमणे व्रणितेषु सैनिकेषु एकोऽपि मृतः। तथा भीकराक्रमणेन वीरमृत्युं प्राप्तानां सैनिकानां संख्या १९ अभवत्। ओडीषा नुवपाडा स्वदेशी पिताबस् मज्हि (३० वयः) एव मृतः। २००८ तमे वर्षे एव मज्हि बि एस् एफ् मध्ये राष्ट्रसुरक्षायै भागभाक् अभवत्।

PS1अखिलभारतीय-आयुर्विज्ञानसंस्थानस्य (AIMS) हीरकजंयत्युत्सवः आमानित:
नवदिल्ली>नवदिल्लीस्थे अखिलभारतीयायुर्विज्ञानसंस्थानस्य  हीरकजयंती समारोहावसरे केन्‍द्रीय-स्‍वास्‍थ्‍य-परिवार-कल्‍याणमंत्री जे पी नड्डा प्रत्यपादयत् यत् विगतषष्टिवर्षेषु अनेन संस्थानेन  गुणवत्तायुक्‍त-स्वास्थ्यसेवासु महत्वपूर्णयोगदानं विहितम्। संस्थानेन सर्वदैव शिक्षाक्षेत्रे उच्चतममानकाः प्रतिष्ठापिताः। संस्थानस्य ९ केन्‍द्राणि ५२ शिक्षणविभागा: अष्टशताधिक-शिक्षकान् समेत्य दससहस्राधिक-कार्मिकाश्च  परिश्रमेण स्वास्थ्यक्षेत्रे योगदानं प्रयच्छन्ति । चिकित्साक्षेत्रे   शोधप्रकाशनेषु जगतः शीर्षचिकित्सासंस्थानेषु   अखिलभारतीयायुर्विज्ञानसंस्थानस्य तृतीयस्‍थानं विद्यते ।

Monday, September 26, 2016

उरि भीकराक्रमणं  न विस्मर्तव्यं , न क्षन्तव्यम् - प्रधानमन्त्री। 
कोष़िक्कोट् > उरि भीकराक्रमणविषये शक्तया भाषया पाकिस्तानं प्रति  भारतस्य अनुशासनम्। अष्टादशधीरभटानां व्यापादनं भारतेन न विस्मर्तव्यं तथा न क्षन्तव्यम्। यथासमयं प्रत्युत्तरं दातुं भारतं शक्तं भवति। सैनिकानां बलिदानं न व्यर्थं भवेत्। आतङ्कवादस्य निर्गमनं कुर्वतः पाकिस्तानस्य पुरतः भारतं भीरुत्वं न प्रदर्शयिष्यतीति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।
    भाजपादलस्य देशीय परिषदः सम्मेलनं कोष़िक्कोट् सागरतीरे उद्घाटनं कुर्वन् भाषमाणः आसीत् मोदिवर्यः। उरि घटनानन्तरम् अस्मिन् विषये सार्वजनीनवेदिकायां प्रधानमन्त्रिणः प्रथमं प्रतिकरणमासीदिदम्।

 ५००-तमा निकषस्पर्धा-भारतं विजयतीरे।  
कान्पूर् > ५००-तमनिकषस्पर्धायां भारतं विजयतीरं प्राप्नोति। स्पर्धायां भारतस्य विजयाय ६ द्वारकाण्येव अपेक्षितानि। निकषस्पर्धायाः चतुर्थदिने न्यूसिलाण्ट् ९३-४ इति भवति। ४३४ इति बृहद्विजयलक्ष्यं प्राप्तुं वल्लनमारब्धस्य न्यूसिलाण्टस्य प्रमुखाः क्रीडकाः बहिर्गताः इत्येतत् भारतप्रतीक्षां वर्धयति। भारताय अश्विनेन ३ द्वारकाणि प्राप्तानि। पूर्वं भारतेन द्वितीयमिन्निङ्स् ३७७-५ इति पर्यवसितम्। भारतस्य कृते विजयः, पूजारा, रोहित् शर्मा, जडेजा च अर्धशतकं प्राप्तवन्तः।
RN7भारतम्‌ आतङ्कवादं प्राेत्साहयति-पाकिस्थानस्य विदेशकार्यमन्त्रालयः।
   इस्लामाबाद्‌ > एष्याभूखण्डे आतङ्कवादप्रवर्तनानां वाहकं राष्ट्रं भवति पाकिस्थानम् इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावनायाः उपरि पाकिस्थानपक्षतः प्रतिकरणम्। पाकिस्थाने विविधेषु स्थलेषु आतङ्कवाद-आभ्यन्तरकलहादीनां प्रोत्साहनं भारतेन दीयते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन आरोपितम्। काशमीरेषु बलूचिस्ताने च जायमानेषु कलहेषु भारतस्य सहयोगः अस्तीति मन्त्रालयवक्त्रा आरोपितम्। आधाररहितैः प्रकोपनपरैः च आरोपणैः भारतं पाकिस्थानं प्रति हीनं प्रचारणं करोति इत्यपि पाकिस्थानस्य विदेशकार्यवक्त्रा ट्विट्टर् द्वारा उक्तम्।

 RN8उरी भीकराक्रमणम्- भीकरान् अधिकृत्य निर्णायकं प्रमाणं लब्धम् ।
 श्रीनगर् > उरी सैनिककेन्द्रं प्रति आक्रमणं कृतवद्भ्यः भीकरेभ्यः पाकिस्थानपक्षतः साहाय्यं लब्धमासीत् इति दृढीकर्तुं योग्यं सुप्रधानं प्रमाणं लब्धम्‌। भीकरैः उपयुक्तम् इति संशयभूतं दूरभाषाश्रवणसहायी प्रदेशेभ्यः लब्धं वर्तते। जपानस्य ऐकोम् इति स्थापनेन निर्मितान्येव एतानि उपकरणानि इति दृढीकृतमस्ति। राष्ट्राणां सुरक्षासेनाभिरेव एतानि उपकरणानि उपयुज्यन्ते इत्यतः भीकरै: तानि कथं प्राप्तानि इत्येतत् पाकिस्थानं प्रति संशयं जनयति। अपि च पाकिस्थान-जपानयोः मध्ये एतेषाम् उपकरणानां विक्रयणं सञ्जातं वा इति भारतेन अन्विष्यमाणं वर्तते।

पाकिस्थानतः प्रेषितः गरुडः भारतसेनया ग्रहीतः।
राजस्थानस्य सीम्नि पाकिस्थानतः प्रेषितः शिक्षितःगरुडः भारतसीमासेनया ग्रहीतः 34 मेगा पिक्‌सल् छायाग्राही पक्षस्य अधो भागे बन्धितः आसीत्। 2016 जानुवरी मासे आसीत् इयं घटना। कः अतङ्क वादं प्रोत्साहयति ??????

Sunday, September 25, 2016

 RN2बलूचिस्तानतर्कः - पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घस्य शासनम्।
 जनीवा > बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि अनुवर्त्यन्ते चेत् पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घेन उपरोधः संस्थाप्यते इति सङ्‌घस्य उपाध्यक्षः रिसोर्ड् सर्नेकि। ए एन्‌ ऐ इति वार्तासङ्घं भाषमाणः आसीत् सः। पाश्चात्यसहकरणसङ्‌घस्य पाकिस्तानेन सह आर्थिक-राष्ट्रिय -उभयपक्षमण्डलेषु बान्धवः अस्ति। तथैव बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि प्रतिरोद्धुं प्रतिज्ञाबद्धः च भवति सङ्‌घः। अतः बलूचिस्ताने शान्तिं संस्थापयितुम् आवश्यकः व्यवहारः पाकिस्तानेन अवश्यं स्वीकरणीय एव इत्यपि सर्नेकि महोदयेन उक्तम्। अन्यथा पाकिस्तानस्योपरि आर्थिकसम्बन्धान् उपरोधान् अपि स्वीकरिष्यतीति तेन सूचितम्।

 RN3भारतेन सह निरुपाधिकचर्चायै पाकिस्तानं सन्नद्धम् - पाक् विदेशकार्योपदेष्टा।
  इस्लामाबाद् > काश्मीरविषयसहिताः सर्वा: अपि समस्या: परिहर्तुं निरुपाधिकचर्चायै वयं सन्नद्धाः इति पाक् प्रधानमन्त्रिणः विदेशकार्योपदेष्टा सर्ताज् असीसः। चर्चया सहैव समस्याः परिह्रियन्ते किन्तु काश्मीरसमस्यायाः परिहारं विना कापि चर्चा सम्पूर्णा न भविष्यतीति एकस्मिन् अभिमुखभाषणे तेन अभिप्रेतम्। ऐक्यराष्ट्रसभायाः अधिवेशने काश्मीरः तर्कबाधितप्रदेशः भवतीति अन्ताराष्ट्रसमूहेन अङ्‌गीकृतं भवति। समस्यापरिहाराय इदानीं भारतस्योपर्येव सम्मर्द: इत्यपि तेन अभिप्रेतम्।

 RN6तमिल्नाटु मध्ये 'अम्मा वैफै' सज्जीकरणम्।

चेन्नै > तमिल्नाटु मध्ये ५० स्थानेषु 'अम्मा वैफै' सज्जीकरणं करोति राज्यसर्वकारः। अन्तर्जालोपयोगाय निशुल्कव्यवस्थायाः सार्वत्रीकरणमेव वैफै सज्जीकरणस्य मुख्यं लक्ष्यम्। जलं, सिमेन्ट्, औषधं, भोजनालयः इत्यादिषु बहुषु विभागेषु 'अम्मा ' इति नाम्ना वस्तूनि उपलभ्यन्ते। इदानीम् अन्तर्जालसंविधानेषु अपि 'अम्मा 'इति नाम्नः प्रवेशनं जातम्। याननिस्थानानि, विनोदकेन्द्रणि, वाणिज्यकेन्द्राणि इत्यादिषु ५० केन्द्रेषु  वैफै संविधानं संस्थाप्यते। एतदर्थं १० कोटिरुप्यकाणि पद्धते: प्रथमपादे सर्वकारेण व्ययीक्रियन्ते, प्रतिवर्षं १.५ कोटि रुप्यकाणि पद्धतेरस्याः कृते दीयन्ते इत्यपि मुख्यमन्त्री जयललिता चेन्नै मध्ये अवदत्।

 RN4सैनिकनेतृभिः सह प्रधानमन्त्री चर्चामकरोत्।
  नवदहली > भारत-पाकिस्तानयोः मध्ये सङ्‌घर्षावस्थाया: समयेऽस्मिन् प्रधानमन्त्री नरेन्द्रमोदी स्थलसेना, नौसेना, व्योमसेना इत्यादीनां सेनानां नेतृभिः सह चर्चामकरोत्। भारतसीमायाः अधुनातनसुरक्षाकार्याणि तथा पाकिस्तानं प्रति सेनामण्डलात् प्रतिक्रिया कथं भवेत् इत्यादीनि कार्याणि चर्चायाम् आसन् इति सूचना अस्ति। देशीयसुरक्षाविभागस्य उपदेष्टा अजित् डोवलः च चर्चायां सन्निहितः आसीत्। तथापि सेनानेतृभिः सह प्रधानमन्त्रिणः मेलने कापि विशेषता नास्ति, तत्तु स्वाभाविकमेवेति प्रतिरोधमन्त्रालयेन सूचितम्।

RN5उरी भीकराक्रमणं काश्मीरे भारतस्यातिक्रमाणां प्रतिकरणम् - नवास् षेरीफ:।
  इस्लामाबाद् > प्रकोपनपरै: परामर्शै: सह पाक्प्रधानमन्त्री नवास् षेरीफ:। जम्मुकाश्मीरस्य उरीमण्डले जातं भीकराक्रमणं काश्मीरे भारतेन क्रियमाणानाम् अतिक्रमाणां प्रतिकरणं स्यादिति नवास् षेरीफ:। किमपि प्रमाणं विना पाकिस्तानं शत्रुस्थाने चित्रीकुर्वन्तं व्यवहारादिकं भारतेन त्याज्यम् इत्यपि सः अवदत्। काश्मीरेषु जातैः अक्रमैः बहूनां कृते बान्धवाः नष्टाः जाताः,तेषु कैश्चित् जनैः कृतं स्यात् आक्रमणम् इति नवास् षेरीफेण लण्टन् मध्ये अभिमुखवेलायाम् अवदत्। नवास् षेरीफेण उरी भीकराक्रमणं परोक्षतया अङ्‌गीक्रियमाणस्यास्य प्रतिकरणस्योपरि विश्वनेतृणां विमर्शनान्यपि आगतानि सन्ति।

२० लक्षपर्यन्तं जि एस् टि करग्रहणं नास्ति।  
             नवदहली > जि एस् टि करसम्प्रदाये परिधिः २० लक्षम् इति निश्चितम्। भारसेवनकरसमिते: प्रथमाधिवेशने एव निर्णयोऽयं स्वीकृतः। तथा च २० लक्षात् न्यूनं वार्षिकायं यानि स्थापनानि स्वीकुर्वन्ति, तानि जि एस् टि करग्रहणसीमायाः अधः भवन्ति। तथापि उत्तरपूर्वप्रान्तेषु केवलं १० लक्षमेव कररहिता अधः सीमा इत्यपि निश्चीयते।२० लक्षादुपरि सार्धैककोटिपर्यन्तं विक्रयणयः राज्यसर्वकारस्य कृते दीयेत। सार्धैककोटेः अधिकतया विक्रयणायः समागच्छति चेत् तत् करधनं द्वाभ्यां राज्यकेन्द्रसर्वकाराभ्यां मिलित्वा ग्रह्यते।

Saturday, September 24, 2016

संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्याङ्कनं भविष्यति 
 संस्कृतभाषाया: विकासार्थं एन.गोपालस्वामिकम्मीशनस्य निदेशः परिगण्यते 
 बेंगलूरु> बेंगलूरुनगरे राष्ट्रियमूल्यांकनप्रत्यायनपरिषदः सभागारे संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्यांकनार्थंसमितेः उपवेशनं प्रचलति। उपवेशनं कम्मीशनस्य प्रस्तावानुसारेण भवति।  समितिरियं संस्कृतसंस्थानां विविधपक्षान् परिशील्य नियमानां निर्माणं करिष्यति। संस्कृतसंस्थानां मूल्यांकनार्थं सर्वेपि नियमाः संस्कृतभाषायामेव स्युः इति परिषदः निदेशकः प्रो. धीरेन्द्रप्रतापसिंहः न्यवेदयत्। समितौ प्रो.हरेकृष्णशतपथी (उपाध्यक्षः ) श्रीनिवासवरखेडी, रमाकान्तपाण्डेयः विरूपाक्षजड्डीपालश्च सन्ति। इयं समितिः मासत्रये नियमान् निर्माय परिषदे समर्पयिष्यति। संस्कृतभाषाया: विकासार्थं मानवसंसाधनविकासमन्त्रालयेन निर्मिता भवति एन.गोपालस्वामिकम्मीशन्।
पाकिस्तानेन सह क्रिकट् समाप्यते-बि सि सि ऐ। 
 कोष़िकोट्(केरलम्) > उरी भीकराक्रमणात्परं भारत-पाकिस्तानयोः बान्धवः अनुदिनं दुष्करावस्थां प्रापयन् वर्तते। इदानीं भारत-पाकिस्तानयोः क्रिकट् बान्धवः अपि दूषयन् वर्तते। पाकिस्तानेन सह क्रिकट् मध्ये बान्धवं परिसमापयितुं बि सि सि ऐ पक्षतः आलोचना वर्तते इति अध्यक्षेण अनुरागठाकुरेण अवदत्। सैनिकानां प्राणानपेक्षया क्रिकट् कीडायाः किमपि प्राधान्यं नास्तीति तेन उक्तम्। भा ज पा दलस्य सामाजिकः सः कोष़िकोट् मण्डले दलस्य राष्ट्रियनिर्वाहकसमित्याः अधिवेशने भागं गृहीत्वा भाषमाणः आसीत्। वर्षेऽस्मिन् पाकिस्तानेन सह क्रीडा नैव निश्चिता, इतःपरं कीडा आवश्यकी वा इति चिन्तनीयं वर्तते-तेन उक्तम्।


 RN2 प्रथमनिकषस्पर्धा : - न्यूसिलान्ट् सुरक्षितस्थाने।
   काण्पुर् > भारतेन सह निकषस्पर्धापरम्परायाः प्रथमस्पर्धायां न्यूसिलान्ट् द्वितीयदिनस्य समापनसमये सुरक्षितस्थानं प्रापयत्।वृष्ट्या द्वितीयदिनस्य क्रीडा पूर्वमेव समापिता। तदानीं न्यूसिलान्ट्   १५२-१ इति सुरक्षितस्थाने भवति। अर्धशतकेन नेता केयिन् विल्यंसः टों लाथं च पादक्षेत्रे भवतः। प्रथम इन्निङ्‌स् मध्ये भारतं न्यूसिलान्टेन ३१८ धावनङ्केषु निष्कासितं वर्तते।

 RN3 सम्भाषणोपयोगाय मूल्यं नास्ति-विपणीं ग्रहितुं बिएस्एन्एल् अपि।
  नवदहली > वार्ताविनिमयसेवनमण्डले  सेवनदातृणां मध्ये स्पर्धा।सेवनेभ्यः(अन्तर्जालसहितेभ्यः)न्यूनमूल्यैः सह मुकेष्‌ अम्बानेः रिलयन्स् जियो इति संस्थया एव प्रथमं पद्धतिराविकृता। इदानीं सर्वकारसामान्यमण्डलस्य बिएस्एन्एल् संस्थया अपि मूल्येषु न्यूनत्वम् आविष्कृतं वर्तते। सम्भाषणाय विना मूल्यं सौकर्यं दातुमेव बिएस्एन्एल् पद्धतिः इति सूचना। किन्तु आनुकूल्यमिदं डिसम्बर् मासात्परमेव लप्स्यते। रिलयन्स् जियो संस्थायाः प्रवर्तनादिकं निरीक्ष्य एव बिएस्एन्एल् संस्थया नूतनमानुकूल्यं दीयते। जियो द्वारा ४जी उपभोक्तॄणां कृते एव आनुकूल्यं चेत् बिएस्एन्एल् द्वारा २जी,३जी उपभोक्तॄणां कृतेऽपि आनुकूल्यं दीयते इत्येतत् सविशेषता भवति। अधुना बिएस्एन्एल् द्वारा रात्रिकालेषु तथा रविवासरेषु च सेवनं निशुल्कतया भवति।

Friday, September 23, 2016

भारतेन पाकिस्तानस्य आतङ्कवादसमर्थनमालोचितम्
नवदेहली > संयुक्तराष्ट्रमहासभायां भारतेन 'राइट टू रिप्लाई' इत्यधिकारान्तर्गतं आतंकवादः मनवाधिकारस्य बृहत्तमोल्लंघनत्वेन प्रतिपादितम् । भारतेन पाकिस्तानद्वारा दीर्घकालात् विधीयमानमातंकवादसमर्थनमपि भृशमालोचितम्  ।

प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् 
नवदेहली >केन्द्रीय वित्तमंत्रिणा अरुणजेटलिना भणितं यत् प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् असौ नवदिल्ल्यां इंफ्रास्ट्रक्चर फाइनेंसिग-  पब्लिक प्राइवेट पार्टनरशिप (पीपीपी) इत्यनेन  संबद्धब्रिक्सदेशानां एकस्याम् गोष्ठ्यां अभिभाषते स्म ।


नवदिल्ल्यां राष्ट्रिय प्रबंधनसम्मेलनम्
 नवदिल्ल्यां ऑल इंडिया मैनेजमेंट एसोसिएशन इत्यत्र राष्ट्रीयप्रबंधनसम्मेलनं संबोधयता केंद्रीयसूचनाप्रसारणराज्यमंत्रिणा  राज्यवर्धनराठौरेण कथितं यत् साम्प्रतिक: कालः  भारताय  विकासस्य समयः वर्त्तते।  देशे संभावित-विपणी-दृढ-इच्छाशक्तिश्च विद्येते।
मुम्बय्यामपि भीकरसान्निध्यम्?
मुम्बई > नगरात् सप्तचत्वारिंशत् कि.मी दूरस्थे उरान् प्रदेशे भीकराः प्रत्यक्षीभूताः इति वृत्तान्तमनुसृत्य मुम्बय्यामपि अतिजाग्रतानिर्देशः।
    पत्तान् नामक  पाकिस्तानीयवस्त्राणि धृतवन्तः आयुधधारिणः केचन पुरुषाः दृष्टा इति उरान् एजूकेशन् सोसाइटी विद्यालयस्य छात्राः स्वीयाध्यापकान् न्यवेदयन्। अध्यापकेभ्यः वृत्तान्तं ज्ञातवन्तः आरक्षकाधिकारिणः नौसेनया स्थलसेनया तीररक्षासेनया च साकम् अन्वेषणम् आरब्धवन्तः। सामान्यजनेभ्यः जाग्रतानिर्देशः कृतः च।
RN4- अनुवैद्यानां वेतनव्यवस्था परिष्कृता। 
नवदेहली > वैयक्तिकार्यातुरालयेषु सेवनं कुर्वताम् अनुवैद्यानां वेतनं परिष्कृतम्। एतदर्थं केन्द्रमन्त्रिसभया निर्देशः दत्तः। सर्वकारातुरालयेषु परिपाल्यमानवेतनव्यवस्थायाः आनुपातिकतया वेतनं परिष्कर्तुमेव केन्द्रसर्वकारस्य निर्देशः। तथा च एतेषां वेतनं न्यूनातिन्यूनं २०,००० रुप्यकाणि इत्यनुपाते भविष्यति। वैयक्तिकार्यातुरालयेषु अनुवैद्यानां वेतनव्यवस्थां सम्बन्ध्य उच्चतरन्यायालयस्य विदग्धसमित्याः निर्देशानुसारमेव केन्द्रसर्वकारस्य वेतनपरिष्करणम् । केन्द्रसर्वकारेण परिष्करणं सम्बन्ध्य निर्देशः राज्यस्तरीयान् आरोग्यकार्यदर्शिनः प्रति दत्तः वर्तते।

Thursday, September 22, 2016

उरी मध्ये सुरक्षाहानिः सञ्जाता - प्रतिरोधमन्त्री। 
नवदहली > उरी भीकराक्रमणाय सुरक्षाहानिरपि कारणं भवतीति अङ्‌गीकृत्य प्रतिरोधमन्त्री मनोहर् परीकरः ।उरी भीकराक्रमणाय सुरक्षाहानिरेव कारणमिति मुख्यप्रतिपक्षेण काण्ग्रस् दलेन तथा माध्यमप्रवर्तकैश्च आरोपितमासीत्। केषुचित् कार्येषु हानिः सञ्जाता, इयम्‌ अतिवैकारिकी समस्या एव , न्यूनताः अवश्यमेव परिह्रियन्ते-मनोहर् परीकरेण उक्तम्। अपि च जल्पनं विना कर्मणः एव वयं प्रामुख्यं दद्मः इति तेन सूचितम्।

 तमिल्नाटु कृते जलं न दीयते- कर्णाटकमन्त्रिसभा ।  
बङ्‌गलुरु > कावेरी नदीजलतर्के उच्चतरन्यायालयस्य आदेशं तृणवदवगणयन् कर्णाटकराज्यम्। कावेरी पर्यवेक्षणसमित्या ३००० क्यूबिक्स् जलं तमिल्नाटु कृते दातव्यमिति निर्देशः दत्तः आसीत्।किन्तु उच्चतरन्यायालयस्य न्यायासनेन ६००० क्यूबिक्स् जलं दातव्यमिति गतदिने आदेशः दत्तः। अयं निर्देशः न पालनीयः इत्येव कर्णाटकमन्त्रिसभायाः निश्चयः। बुधवासरे रात्रौ मुख्यमन्त्रिणः सिद्धरामय्यस्य आध्यक्षे जाते मन्त्रिसभायोगे एव तमिल्नाटु कृते उच्चतरन्यायालयस्य आदेशानुसारं जलं न दातव्यमिति निर्णयः स्वीकृतः वर्तते। गतदिने संवृत्ते सर्वदलाधिवेशने अपि उच्चतरन्यायालयस्य आदेशः न अङ्‌गीकरणीयः इति निश्चितमासीत्।

प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानान्यपि। 
 नवदहली > प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानानि फ्रान्स् तः स्वीकर्तुं मन्त्रिसभायाः अनुमतिः। एतत्सम्बन्धे उभयसम्मतपत्रे भारतं शुक्रवासरे हस्ताक्षरं करिष्यति। तदर्थं फ्रञ्च् विदेशकार्यसचिवः षीन्ले ड्रियान्‌ अद्य भारतं प्राप्नोति। ८८० कोटि डोलर् (६०,००० कोटि रुप्यकाणि) भवति अस्याः पद्धतेः धनव्ययः। भारतव्योमसेनायाम् एतादृशयुद्धविमानानाम्‌ अपर्याप्तता अधिका इति व्योमसेनाध्यक्षेण एयर् चीफ्‌ मार्षल् अरूप् राहेन पूर्वमेव सूचितमासीत्।
भारत-न्यूसिलान्ट् क्रिकट् निकषस्पर्धा अद्य आरभते। 
  काण्पूरम्> भारत-न्यूसिलान्टराष्ट्रयोः अस्य कालकृतस्य प्रथमक्रिकट् निकषस्पर्धा काण्पुरे अद्य आरभते। भारतस्य पञ्चशततमा निकषस्पर्धा इति विशेषः अप्यस्ति।अत एव सच्चिन् टेण्टुल्करः, वेङ् सर्कारः, मुहम्मद् अस्हरुद्दीनः इत्यादीनां
 क्रिकट् प्रतिभाशालिनां सान्निध्यमपि प्रतीक्षते।
      ५०० तमां इमां स्पर्धां भारते अविस्मरणीयां कर्तुं नायकस्य विराट् कोलिनः संघः सिद्धताम् आप्तः।  किन्तु भारतस्य प्रमुखक्रीडकेषु शीघ्रकन्दुकक्षेपकः (fast bowler) इशान्त् शर्मा चिक्कुन् गुनिया रोगेण पीडितः इत्यतः प्रथमस्पर्धायां न क्रीडिष्यति।
  RN5 रेल्वे धनव्ययगणनपत्रिका अस्तंगता।
  नवदहली > ९२ वर्षेभ्यः पूर्वमारब्धं रेल्वे आयव्ययपत्रिकावतरणं केन्द्रसर्वकारेण समाप्यते। रेल्वे आयव्ययपत्रिका इतः आरभ्य सामूहिकाव्ययपत्रिकया सहैव समर्प्यते। तदर्थं केन्द्रमन्त्रिसभया अनुमतिः दत्ता। केन्द्र-आयव्ययपत्रिकावतरणं जनुवरिमासे कर्तुमपि धनमन्त्रालयेन अभ्यर्थितम्। अनेन नूतनार्थिकवर्षस्य कृते आवश्यकं सज्जीकरणादिकं कर्तुं समयः लप्स्यते इति धनमन्त्रालयः सूचयति। रेल्वे आयव्ययपत्रिकायाः केन्द्र-आयव्ययपत्रिकया सह अवतरणेन धनव्ययोऽपि न्यूनीकर्तुं शक्यते। ९२ वर्षेभ्यः पूर्वम् आङ्गलभरणादिकारिभिः एव द्वयोरपि आयव्ययपत्रिकयोः व्यतिरिक्तावतरणम् आरब्घम्।

RN6 क्रिकट्- एम्.एस्.के. प्रसाद: चयनसमिते: अध्यक्षः।

एम्.एस्.के प्रसादः
 मुम्बई > भारतस्य भूतपूर्वः क्रीडकः एम्.एस्.के प्रसादः देशीयक्रिकट्सङ्घचयनसमितेः अध्यक्षस्थानम् आरूढवान्। भारतस्य भूतपूर्वः द्वारकपालकबल्लकः भवति एम् एस् के प्रसादः। मुंबई मध्ये संवृत्ते बि सि सि ऐ वार्षिकयोगे एव प्रसादस्य चयनमभवत्। अधुनातनाध्यक्षस्य सन्दीप् पाटीलस्य स्थाने एव तस्य आरोहणम्। चयनसमित्‍यां पञ्च अङ्‌गाः सन्ति। कनिष्ठक्रीडकाणां चयनसमितेः अध्यक्षः वेङ्‌कटेष् प्रसादः भवति।

RN
DM 01झारखंडः अौद्यौगिक विकासस्य केन्द्रम् अस्ति - मुख्यमन्त्री
रांची> झारखंडः अौद्यौगिक विकासस्य केंद्रः अस्ति, अतः अत्र निवेश्य करोतु इति झारखंडस्य मुख्यमन्त्री रघुवर दासः अकथयत् । सः मंगलवासरे मुंबईनगरे झारखंड मोमेंटम नामधेये एकस्मिन् सम्मेलने प्रांतस्य विकासाय स्वेच्छां स्थापितवान्। अष्ट अौद्यौगिक समूहाः झारखंडे कार्यं कर्तुम् इच्छन्ति । कार्यक्रमेषु रघुवर दासेन सह झारखंडमंत्री सीपी सिंहः नीरा यादवः च अपि अासीत्।

Wednesday, September 21, 2016



Sanskrit News 21/09/2016
Meenakshi N V, BSUPS Kalady.
उरी मध्ये पुनरपि भीकराक्रमणम्‌- एकः सैनिकः दश भीकराश्च हताः। 
 श्रीनगर् > जम्मू-काश्मीरे उरी मण्डले भीकराक्रमणम्‌ अनुवर्तते। ह्यः सञ्जाते आक्रमणे एकः सैनिकः दश भीकराश्च हताः। लाच्चिपुरा प्रविश्यायां प्रवेष्टुम् उद्युक्तं भीकरसंघं भारतसेना प्रत्यरुधत् । संघे १५ भीकरा: आसन् इति सूचना अस्ति। तेषु सेना१० भीकरान् अवधीत्।, ५ च पलायनमकुर्वन्। नौगामिति अन्यस्मिन् प्रदेशे जाते संघर्षे एकः सैनिक: च हतः।

दशरूप्यकाणां नाणकम् उपयोगप्रदम् - आर् बि ऐ । 
नवदहली > दशरूप्यकाणां नाणकं भारते यत्र कुत्रापि उपयोक्तुं शक्यते इति आर् बि ऐ। नाणकमिदं स्वीकर्तुं विमुखतां प्रदर्शयतामुपरि दण्डनव्यवहारं स्वीकरिष्यति इत्यपि आर् बि ऐ वक्त्रा स्पष्टीकृतम्। दशरूप्यकाणां नाणकं निरोधितं भवतीति केषुचित् सामूहिकमाध्यमेषु वार्ता: प्रचलिताः आसन्। तत् दृष्ट्वा केचन आपणिकाः विविधेषु यानेषु कर्मकराः च एतत् नाणकं स्वीकर्तुं विमुखताम् अप्रदर्शयन्। अत एव रिसर्व् बाङ्क् पक्षतः नूतनविशदीकरणं दत्तं वर्तते। नाणकनिरोधनविषये न कोऽपि निर्णय: स्वीकृतः इति आर् बि ऐ वक्त्रा अल्पना किलावालेन सूचितम्। अपि च सामान्यजनाः कमपि सन्देहं विना नाणकस्यास्य उपयोगं कुर्वन्तु इति तेन उक्तम्।

केन्द्रसर्वकारं विमर्श्य राहुल्गान्धिः।
नवदहली > केन्द्रसर्वकारस्य विदेशनयान् तथा भीकरविरुद्धव्यवहारान् च विमर्श्य काण्ग्रस् उपाध्यक्षः राहुल्गान्धिः। मोदीसर्वकारस्य विदेशनयाः, आतङ्गवादप्रतिरोधव्यवहाराः च सम्पूर्णपराजयाः एवेति राहुल्गान्धिना उक्तम्। राष्ट्रसुरक्षायां सर्वकारस्य कापि श्रद्धा नास्तीति तेन उक्तम्। पठान्‌कोट् आक्रमणात्परमपि सञ्जाता सुरक्षा हानिमेव उरी आक्रमणं सूचयति इति राहुलेन प्रस्तावितम्।'तन्त्रप्रधानां काश्मीरसमस्यां प्रति मोदीसर्वकारेण श्रद्धा नैव दीयते, सामूहिकयोगनियन्त्रणमिव देशीयसुरक्षा सुकरा नैव भवतीति केन्द्रसर्वकारेण प्रत्यभिज्ञातव्यम्'- राहुलेन सूचितम्। अपि च एन् डी ए शासनकालेऽस्मिन् समये यु पि ए शासनकालादपेक्षया भीकराक्रमणादिकम् अधिकं भवतीति तेन अभिप्रेतम्।
 RN1 सार्क् मेलनं बहिष्कर्तुं पर्यालोचना।
   नवदहली > उरी भीकराक्रमणे पाकिस्तानस्य योगदानम् अस्तीति चिन्त्यमानेऽस्मिन् समये नवम्बर् मासे पाकिस्ताने इस्लामाबादे संपत्स्यमानं 'सार्क्' मेलनं बहिष्कर्तुं भारतस्य पर्यालोचना। भीकरवादाक्रमणाय पाकिस्तानेन साहाय्यं दीयतेत्यतः अन्ताराष्ट्रवेदिकासु पाकिस्तानस्य निराकरणमेव अस्य लक्ष्यं वर्तते। नवम्बर् ९,१० दिनाङ्कयोरेव इस्लामाबादे सार्क् राष्ट्राणां मेलनम्। भारतं प्रति सहयोगं प्रकटय्य बङ्गलादेश्, अफ्‌गानिस्तान् च सार्क् मेलनं बहिष्कुरुतः इत्यपि सूचना अस्ति। दक्षिणेष्यराष्ट्राणां संस्थायामस्यां ८ राष्ट्राणि सन्ति।
साधारणकक्षासु दीर्घदूरचिटिकाः न दीयन्ते!
कोच्ची> केरलतः उत्तर-पूर्वदिशः गच्छत्सु रेल् यानेषु अनारक्षितकक्ष्यासु दीर्घदूरयात्रार्थं चीटिकाः न दातव्याः इति रेल् यानमन्त्रालयस्य रहस्य निर्देशः! सामान्यचीटिकाप्राप्त्यनन्तरं आरक्षितकक्षाः अनधिकृतया प्रविशद्भ्यः यात्रिकेभ्यः जायमानान् अस्वारस्यान् अपाकर्तुमेव अयं निर्देशः कृतः। ह्रस्वदूरयात्राभ्यः चिटिकाः  केवलमधुना सामान्यकक्षाः उद्दिश्य लभन्ते। विशिष्य, मध्याह्नानन्तरम् अयं निर्देशः कर्कशेन पालनीयः इति वाचा आदेशः। षालिमार् एक्स्प्रेस् , गुरुदेव् एक्स्प्रेस्, गुहावत्ती - पाट्ना -बोक्कारो एक्स्प्रेस् आदिषु यानादिषु पूर्वोक्तनियन्त्रणं प्रवृत्तिपथमागतम्। केरलेतरराज्यीयान् कर्मकरान् अयं निर्देशः बाधते। ते पालक्काट् वा कोयम्पत्तूर् गत्वा सामान्यकक्षासु दीर्घदूरयात्राचीटिकाः सम्पादयन्ति। अतः केरलस्य रेल्याननिस्थानानां आयनष्टम् अपि जायते।

 सिरियायां यू एन् संघं प्रति व्योमाक्रमणं - २१ मरणानि।
अलेप्पो [सिरिया]> अत्र नगरसमीपं दुरिताश्वाससामग्रीभिः गम्यमानं ऐक्यराष्ट्रसभायाः वाहनव्यूहं प्रति संवृत्ते व्योमाक्रमणे एकविंशति जनाः मारिताः। तेषु २० तत्रत्याः जनाः अन्यः 'रेड् क्रसन्ट्' संस्थायाः वरिष्ठप्रवर्तकश्च । अतः सुरक्षाकारणेन सर्वाणि दुरिताश्वासप्रवर्तनानि अवस्तम्भितानि इति ऐक्यराष्ट्रसभया निगदितम्। ७८००० जनेभ्यः भक्षणसहितानि वस्तूनि वहन्तं वाहनव्यूहं प्रति आसीत् व्योमाक्रमणम्। गतदिने सिरियासैन्यैः आक्रमणं प्रत्यर्प्य होराणामाभ्यन्तरे आसीत् इदमाक्रमणम्।
सोपानम्-12 Meenakshy N V, BSUPS Kalady.

Tuesday, September 20, 2016

 उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य बि एस् एन् एल्।
    
 नवदहली > उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य सेवनम् अभिवर्धयितुं बिएस्एन्एल्। तदर्थम्‌ आविष्कृतायाः"सेर्वीस् वित् ए स्मैल् (स्वास्)" इति पद्धत्याः अनुबन्धतया श्वः १२ वादने बिएस्एन्एल् सि एम् डि अनुपं श्रीवास्तवेन केरलीयैः उपभोक्तृभिः सह संवद्यते। सामूहिकमाध्यमेन ट्विट्टर् द्वारा एव एकघण्टात्मकः संवादः आयोजितः वर्तते। स्वाभिप्रायान् निर्देशान् च प्रस्तौतुम् उपभोक्तॄणां कृते सन्दर्भः अपि लप्स्यते। तदर्थं "टाक्‌टुबिएस्एन्एल्सिएम्डि (Talk ToBSNLCMD)" इति हाष्टाग् अपि सज्जीकृतमस्ति।
ऋग्वेदग्रन्थे संस्पृश्य ब्रिटीष्‌ सामाजिकस्य सत्यप्रतिज्ञा।
  ब्रिटण् > १६७ वर्षाणां पुरातनत्वम् अनुमीयन्तं संस्कृतग्रन्थं हौस् ओफ्‌ लोर्ड्स् कृते समर्प्य भारतवंशजः युवसामाजिकः। ब्रिटणस्य विधानसभायां युवसामाजिकः जितेष् किषोर् कुमार् एव व्यत्यस्तशैल्यां सत्यप्रतिज्ञाम् अकरोत्। माक्स् मुल्लर् महोदयेन १७४९ तमे वर्षे सम्पादितं संस्कृतभाषायां लिखितं ऋग्वेदग्रन्थं संस्पर्श्य आसीत् जितेष् किषोर् कुमारस्य सत्यप्रतिज्ञा ।
 
संस्कृतेन जन्मदिनामाशंसयन्- आप्पिल् संस्थायाः CEO

नव देहली >आप्पिलस्य स्वामी टिम् कुक्कः नरेन्द्रमोदिनः जन्मदिने संस्कृतेन शुभाशयाः प्रेषिताः। संस्कृतभाषा लोकभाषायाः गुरुस्थाने पुनरागच्छति इति वदन्ति संस्कृतप्रेमिणः। नरेन्द्रमोदिनः जन्मदिने टिट्वर् द्वारा आसीत् टिम् कुक्कस्य  आशंसा प्रकाशनम्। 'वसुधैव कुटुम्बकम्' (भवतु आवयोः) इति उक्त्वा सः मोदिनं मुदितवान् । नरेन्द्रमोदिनः सप्तषष्टितमं जन्मदिनमासीदिमम्। राष्ट्रान्तरात् सन्देशप्रलयाः आसन् अस्माकं प्रधानमन्त्रिणे।

 RN5  तमिल्नाडु कृते जलं दातव्यम् - कावेरी पर्यवेक्षणसमितिः।
     नवदहली > कावेरी नद्याः जलं तमिल्नाडु कृते अपि दातव्यम् इति कावेरी पर्यवेक्षणसमित्याः आदेशः। कावेरी नद्या: प्रतिदिनं ३००० क्यूबिक्स् जलं दातुमेव समित्याः नूतननिर्देशः। अस्य मासस्य ३० दिनाङ्कपर्यन्तं जलं दातव्यमस्ति। समित्‍याः नूतननिर्देशेन कर्णाटके तमिल्नाडु मध्ये च आक्रमणप्रवर्तनाय उपपत्तिरस्तीत्यतः सुरक्षाक्रमीकरणादिकं शक्तं कर्तुं राज्यसर्वकारयोः केन्द्रसर्वकारेण निर्देश: दत्तः वर्तते।


 उरी भीकराक्रमणम् अपलप्य बान् कि मूण्।
युणैटड् नेषन्स् > उरी भूसेनास्थानं प्रति जातं भीकराक्रमणम् अपलप्य यु.एन् अध्यक्षः बान् कि मूण्। आक्रमणस्य दायित्वां वहतां भीकराणां दण्डनव्यवहारः नियमानुसृतं करणीयः इत्यपि तेन अभिप्रेतम्। काश्मीरदेशवासिनां जीवनावस्थायाः उपरि यु एन् संस्थायाः आशङ्का अनुदिनं वर्धत एव इति तेन सूचितम्। आक्रमणेन मृतानां सैनिकानां कुटुम्बाङ्गेभ्यः भारतसर्वकाराय च बान्‌ कि मूण् महोदयेन अनुशोचनं निवेदितम्।

पाकिस्तान् युद्धम् इच्छति चेत् वयं सज्जाः एव - विजेन्दरः।
  नवदहली > जम्मुकाश्मीरे उरी मण्डले गतदिने जातं भीकराक्रमणं सम्बन्ध्य पाकिस्तानस्योपरि रूक्षविमर्शनेन सह भारतीय: मुष्टियुद्धक्रीडकः विजेन्दरसिंहः। पाकिस्तानराष्ट्रं युद्धमेव इच्छति चेत् वयं भारतीयाः तदर्थं सज्जाः इति सः ट्विटर् द्वारा असूचयत्। मृतेभ्यः १७ सैनिकेभ्यः स्वानुशाेचननिवेदनवेलायामेव विजेन्दरेण एवम् अभिप्रेतम्‌।


उरी भीकराक्रमणम् - मरणसंख्या २० ।  
श्रीनगर् > जम्मू काश्मीरे उरीमध्ये जाते भीकराक्रमणे वीरमृत्‍युं प्राप्तानां सैनिकानां संख्या विंशति: अभवत्। सैनिककेन्द्रं प्रति गतदिने जाते आक्रमणे १७ सैनिकाः हताः आसन्। व्रणितेषु सैनिकेषु ३ अपि ह्यः मृत्युं प्राप्ता:। अपि च आक्रमणस्य सूत्रधारेषु एकस्य चित्रं बहिरागतं वर्तते।भीकरेभ्यः प्राप्तानाम् आयुधानाम् आक्रमणस्थलस्य च चित्राणि वार्तसंघः ए.एन्.ऐ प्रसिद्धीकृतानि।


उरी आक्रमणं - भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानराष्ट्रं सज्जम्। 
इस्लामाबाद् > जम्मुकाश्मीरे उरी मण्डले जातं भीकराक्रमणं सम्बन्ध्य वादप्रतिवाद: न पर्यवसति। प्रत्याक्रमणाय भारतसेना सज्जा इति वार्तायाः सन्दर्भे, भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानस्य सेना अपि शक्ता एवेति पाक् सैनिकाध्यक्षः रहील् षरीफेण अभिप्रेतम्‌। आक्रमणात्परं मण्डलेषु जायमानानि सविशेषकार्याणि निरीक्षितुम् आवश्यकः व्यवहारः पाकिस्तानेन स्वीकृतः इति तेन सूचितम्। रावल्पिण्डी मध्ये सैनिकास्थाने जाते सैनिकोद्योगस्थानां योगे एव तेन एवमभिप्रेतम्‌। काश्मीर् विषयात् व्यतिचलनाय एव भारतेन एतादृशम् आरोपणादिकम् उन्नीयते इत्यपि तेन उक्तम्।

केरळेषु रयिल् गातागतः भग्नः।
कोल्लम् > करुनागप्पिल्ली रयिल् निस्थानस्य समीपे कल्लुकटवु परिसरे रात्रौ १२:३० वादने एव दुर्धटना। रासोर्वरकाणि वहत् यानमेव अपघाते पतितम्। गमनमार्गे रयिल् पट्टायां संभूतं छिद्रं दुर्घटनायाः कारणम् । 'पासञ्चर्' यानानां यात्रा अवसिता । केरळेषु रयिलस्य पट्टयां भग्नता दृश्यन्ते इति गतमासे जातापघातस्य कारणमन्विष्यमाणेन समितिना सूचितम् आसीत् ।

संयुक्तराष्ट्रमानवाधिकारपरिषदि भारतेन पाकिस्तानराष्ट्रं तर्जितम्। 
भारतेन संयुक्तराष्ट्रमानवाधिकारपरिषदि  आतंकवादप्रकरणम् उत्थापितम् । जम्मू-काश्मीरे आतंक्याक्रमणे अष्टादशसैन्यकर्मिणां वीरगतेरनन्तरं भारतेन अन्ताराष्ट्रियपरिवेशे आतंकवादं विरुद्ध्य (ज़ीरो टालरेंस) इति शून्यसहिष्णुता नीतेः क्रियान्वयनम् अभियाचितम्  । परिषदः त्रयस्त्रिंशततमे सत्रे भारतेन परिषदः अध्यर्थितः यत् पाकिस्तानः निजदेशात् जायमानानं आतंकिगतिविधीनां प्रवर्तम् अथ च आतंकवादिगुल्मानां समर्थनं न कुर्यादिति ।

Monday, September 19, 2016

मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः

नव दिल्ली >केन्द्रप्रशासनेन निर्माणोद्योगं सम्वर्धयितुं सौविध्यपूर्ण-आवासान् च केन्द्रीकृत्य  मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः प्रारब्धा, इयं हि अक्टूबरमासात्  प्रभावमायास्यति।

Sunday, September 18, 2016

RN1 जम्मू-काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम्‌ -१७ सैनिकाः हताः।
  श्रीनगरम् > जम्मू-काश्मीरे उरीमण्डले सैनिककेन्द्रं प्रति भीकराक्रमणम्‌। आक्रमणे १७ सैनिकाः हताः ८ व्रणिताः च। प्रत्याक्रमणे ४ भीकराः अपि हताः। प्रातः चतुर्वादनकाले आसीत् भीकराक्रमणम्‌। आयुधधारिणः भीकराः सैनिककेन्द्रं प्रति अनुस्यूततया गोलिकाप्रहारम् अकुर्वन्। सप्तघण्टात्मकं दीर्घतमं प्रत्याक्रमणं कृत्वा सैनिकैः मण्डलस्य नियन्त्रणं प्राप्तं वर्तते। विदेशयात्रादिकम् उपेक्ष्य आभ्यन्तरसचिवः राजनाथसिंहः जम्मू-काश्मीरं संद्रक्ष्यते। देशीयमार्गस्य तथा नियन्त्रणरेखायाश्च समीपस्थः प्रदेशःभवति उरी।