वि डि सतीशः केरलस्य मुख्यमन्त्री।
नवदिल्ली> वि डि सतीशः केरलस्य नूतननायकः भविष्यति। बहुदिनानि यावत् दीर्घिकृतायाः अनिश्चितावस्थायाः तथा नाटकीय चर्चायाः अनन्तरम् अधिकारयुद्धस्य पर्यवसानरूपेण कोण्ग्रस् हैकमाण्डेन वि डि सतीश् महोदयः मुख्यमन्त्रीरूपेण विज्ञप्तः। अद्य मध्याह्ने द्वादशवादने देशीय कोण्ग्रस् संघटनस्य (ए ऐ सि सि )आस्थाने सम्पन्ने वार्तामेलने दीपा दास् मुन्षि महोदयया एव सतीश् वर्यस्य नाम ख्यापितम्॥
