केरलम्।
तटित्प्रपातेन ४ युवकाः मृताः।
मलप्पुरं> मलप्पुरं जनपदस्थे मङ्कटप्रदेशे वेल्लिला इत्यत्र पर्वतोपरिस्थे 'कुरङ्ङन् चोला' दर्शनस्थाने [view point] चत्वारः युवकाः तटित्प्रपातेन मृताः। त्रयः कठिनतया आहताः। १८ - २० वयस्काः भवन्ति मृत्युमुपगताः। सर्वेSपि दुर्घटनास्थानस्य समीपप्रदेशवासिनः सन्ति। कुजवासरे सायं पञ्चवादने प्रकृतिदर्शनार्थं सर्वे सुहृदः यदा दर्शनस्थानं प्राप्ताः तदा आसीदियं दुर्घटना।