प्रश्नपत्रपरिस्रवणं - 'नीट् यू जी' परीक्षा निरस्ता।
पुनःपरीक्षा विधास्यते।
नवदिल्ली> वैद्यशास्त्रे स्नातकबिरुदसम्पादनाय विधत्तायाः प्रवेशनपरीक्षायाः [NEET UG] प्रश्नपत्राणि परिस्रवितानि इति प्रमाणीकृृतस्य आधारे मेय् मासे तृतीयदिनाङ्के विधत्ता परीक्षा निरस्ता। पुनःपरीक्षा अचिरेण विधास्यते, दिनाङ्कादिकं परं विज्ञापयिष्यतीति नीट् परीक्षाविधानसंस्थया एन् टि ए [National Testing Agency] इत्यनया प्रस्तुतम्।
प्रश्नपत्रपरिस्रवणम् अधिकृत्य अन्वेषणं सि बी ऐ संस्थया स्वीकृतम्। परिस्रवणस्य सूत्रधारः इति मन्यमानः राजस्थानीयः राकेश् कुमारः अन्वेषणसंघेन निगृहीतः। एनमतिरिच्य पञ्च जनाः अपि निगृहीताः। एषु चत्वारः नीट् परीक्षायै सज्जाः छात्राः इति सूच्यते।