OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 14, 2026

 डोनाल्ड ट्रम्पः चीने; ट्रम्प-षि मेलनम् अद्य। 

डोनाल्ड ट्रम्पाय अनुगामिसंघाय बीजिंगे लब्धं स्वीकरणम्। 

बीजिंग> आयातकरप्रतिसन्धेः इरानयुद्धस्य च मध्ये यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः चीनस्य राष्ट्रपतिना षि जिन् पिङ् वर्येण सह मेलितुं बुधवासरे चीनराजधानीं - बीजिंग् - प्राप्तवान्। यू एस् प्रशासने प्रमुखाः, 'टेस्ला' संस्थायाः अध्यक्षः इलोण मस्कः, 'आप्पिल्' संस्थायाः अध्यक्षः टिं कुक्कः, 'एन् विडिया' इत्यस्य अधिकारी जेन्सण् ह्वाङ् इत्यादयः ट्रम्पम् अनुगच्छन्ति। ट्रम्प-षि मेलनम् अद्य भविष्यति।


  इरानयुद्धं, परस्परव्यापारयुद्धं, तैवानं इत्येते मुख्यचर्चाविषयाः भविष्यन्ति। बीजिंगे 'कापिटल्' अन्ताराष्ट्रियविमाननिलये ट्रम्पाय अनुगामिसंघाय च रक्तावर्णास्तरणेन हृद्यं स्वीकरणं लब्धम्। चीनस्य उपराष्ट्रपतिः हान् चेङ् इत्येषः  स्वीकर्तुं विमाननिलयं प्राप्तवान्। २०१७ तमे वर्षे आसीत् कस्यचन यू एस् राष्ट्रपतेः चीनसन्दर्शनम्।