OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, January 13, 2019

संस्कृताभियानम् ।
 -प्रा. डॉ. विजयकुमार: मेनन्
गृहस्य नाम श्रीप्रसादम् - 
केरलदेशे कोषिक्कोट् जनपदे बालुशेरि ग्रामे भवति इदं गृहं।
 गृहनाथः सुरेशमहोदयः संस्कृतप्रेमा स्वस्य भवनस्य नाम
देवनागरी लिप्यां दारुफलके श्रीप्रसादम् इति दत्तम्। गृहप्रवेश-समारोहस्य 
निमन्त्रणपत्रमपि संस्कृतभाषया मुद्रितवान्‌ आसीत् एषः महोदयः।
॥ प्रसारयेम संस्कृतम् गृहे गृहे च पुनरपि॥
      नमांसि, संस्कृतज्ञा: वयं भाविनि काले करणीयकार्यसम्बन्धे अद्य कियद् दूरपर्यन्तं द्रष्टुं शक्नुम:, तदर्थम् अद्य का: सज्जता: कुर्म: इति एषा एव दूरगामिदृष्टि: इति कथ्यते। कस्य करणेन किं भविष्यति, कस्य अकरणेन च किं भविष्यति इति परिणामं चिन्तयितुं शक्नुम: चेत् वयं परिणामदर्शिन: भवाम:। संस्कृतस्य विकासाय  आगामिषु दशसु विंशत्यां च वर्षेषु किं किं करणीयं, लक्ष्यं,  मार्ग:, कार्यक्रम: च के,  इति एतेषां स्पष्टचित्रम् एव सा अपेक्षिता दृष्टि:। किं संस्कृतज्ञानां मध्ये एतद्विषये चर्चा भवति? मित्राणि, विविधेषु संस्कृतमञ्चेषु एतद्विषये गभीरं विचारमथनं भवेत्। जयतु संस्कृतम् जयतु भारतम् ।

Saturday, January 12, 2019

नवीनभारतस्य स्वाभिमानोद्धारणम् आर्थिकारक्षणेन शक्यते- प्रधानमन्त्री।
 
भा ज दलस्य राष्ट्रिरियोपवेशने नरेन्द्रमोदी
   नवदिल्ली> दरिद्रेभ्यः  प्रतिशतं दश इति आर्थिकारक्षणेन नवीन भारतस्य स्वाभिमानोद्धारणं शक्यते इति प्राधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भ्रष्टाचारस्य स्पर्शलेशं विना राष्ट्रशासनं शक्यते इति स्वस्य सर्वकारेण प्रमाणीकृतम् इति तेनोक्तम्I  भा ज दलस्य राष्ट्रिय सम्मेलने भाषमाणः आसीत् सः।  भूतपूर्वसर्वकारः भ्रष्टाचारेण, भ्रष्टाचारारोपेण च निभृतः आसीत्l इदं प्रथमतया अस्ति भ्रष्टाचारारोपरहितः सर्वकारः। राफेल् व्यवहारे भ्रष्टाचारः नास्ति इति बालकाः अपि जानन्ति।
अफगानिस्तानदेशे भारतस्य तात्पर्यः नास्ति ; तालिबानेन सह वार्तालापे भारतं बहिः नास्ति— सेनाप्रमुखः।
-साक्षी चौरसिया
     नवदेहली > सेनायाः प्रमुखेन बिपिनरावतेन देहल्यां वार्षिकसम्मेलने प्रथमवारं अफगानिस्तानस्य विषयोपरि कथितम्। रावतेनोक्तं यत् यदि भारतस्य अफ्गानिस्थानेन सह कोऽपि सम्बन्धः अस्ति, तर्हि तु तालिबानेन सह वार्तालापं कुर्वत्सु देशेषु अस्मासु अपि सहयोगः भवितव्यः।
      गतवर्षे अफगानिस्थाने शांति इति विषये वार्तालापार्थं रूसदेशेन भारतं आमन्त्रितम्। भारतेन एतस्मिन् विषये अनौपचारिकतया  सहयोगः कृतः। एतत् प्रथमवारमासीत् यदा भारतं तालिबानेन सह मञ्चं साक्षात्कृतवत्। यतोहि, अफगानिस्तानस्य स्थित्यां भारतस्य आधिकारिकनीतिः तालिबानेन सह सम्मिलितं भविष्यति इति ज्ञायते। यतोहि, अमेरिका, रूस, ईरान्, तथा पाकिस्तान् इत्येतानि राष्ट्राणि तालिबानेन सह वार्तालापे सम्मिलितानि आसन्।

Friday, January 11, 2019

अयोध्या याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि परीक्ष्यन्ते।
      नवदिल्ली> अयोध्या विवादानुबन्ध-याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि सर्वोच्चन्यायालयेन आवेक्ष्यन्ते। संस्कृतं, हिन्दी, उर्दु, अरबिक्, पेर्स्यन्, गुरुमुखी भाषाभ्यः प्रमाणपत्राणाम् अनुवादः करणीयः। याचिकायां प्रमाणानि अधिकृत्य विवादः अस्ति इति कारणेन अनुवादकरणाय भाषानुवादकानां साहाय्यं प्रार्थयितुं  न्यायालयेन निश्चितम्।
     अवसरेऽस्मिन् न्यायवादश्रवणकर्तव्यात् न्यायाधीशः यु यु ललितः प्रतिनिवृत्तवान्। अतः वादश्रवणतिथिः जनुवरि २९ इति परिवर्तिता। मुख्यन्यायाधीशस्य आध्यक्ष्ये २९ दिनाङ्के वादश्रवणः समारभ्यते।

Thursday, January 10, 2019

हिस्बुल् मुजाहिद्दीन् दलाय शस्त्रवितरणाय गतवन्तौ गृहीतौ।
- डा अभिलाष् जे
   कत्वा> हिस्बुल् मुजाहिद्दीन् भीकरदलायै शस्त्रवितरणाय प्रयत्नं कृतवन्तौ द्वौ आरक्षकैः गृहीतौ। शस्त्रसञ्चयं तथा एकं बृहद्यानं च गृहीतम्।निस्सार अहम्मदः, आखिब् च गृहीतौ। तयोः पार्श्वतः ८१००० रूप्यकाणि गृहीतानि।  गुप्तसूचनाम् अनुसृत्य तौ द्वौ गृहीतौ इति कत्वा एस् पी श्रीधर् पाट्टीलेन उक्तम्।पञ्जाब् राज्यात् यानं आगतं तथा गृहीतौ द्वौ पुल्वामा देशवासिनौ आस्तामिति तेन उक्तम्।
आयोध्याव्यवहारः पञ्चाङ्गपीठेन श्रूयते ; विषयः अद्य परिगण्यते। 
 नवदिल्ली  >  अयोध्याभूमितर्कव्यवहारं श्रोतुं पञ्चाङ्गात्मकः  शासनसंविधानपीठः रूपवत्कृतः। मुख्यन्यायाधीशः रञ्जन् गोगोय्, न्यायाधीशाः एस् ए बोब् डे , एन् वि रमणः , यू यू ललितः , डि वै चन्द्रचूडः इत्येतैः अन्तर्गणितः शासनविधानात्ममकः नीतिपीठः अद्य 'रामजन्ममभूमि - बाबरि मस्जिद् भूमितर्कविषयं' परिगणयति। 
   २०१० तमे संवत्सरे अलहबाद् उच्चन्यायालयेन विज्ञापितं विधिप्रस्तावं विरुध्य १४ पुनर्विचारप्रार्थनाः सर्वोच्चन्यायालये समर्पिताः। तर्कस्थाने राममन्दिरनिर्माणं शीघ्रमेव आरब्धुं निदेशः प्रस्ताव्यः इत्यावश्यमुद्घोषयन्तः विविधाः हैन्दवसंघटनाः मञ्चं प्रविष्टवन्तः अपि न्यायालय निर्णयस्याधारे एव अस्मिन् विषये निर्णयः स्वीकरिष्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्।

Wednesday, January 9, 2019

द्विदिनस्य राष्ट्रियकर्मन्यासप्रतिषेधे जनाः कष्टम् अनुभूतवन्तः

 कोच्ची> विपक्षिदलानां द्विदिनस्य -कर्मन्यास प्रतिषेधे जनाः कष्टम् अनुभूतवन्तः। रेल् रोट्  मार्गाः विपक्षिदलीयैः उपरोधिताः। केरले विपण्यः बलेन पिधातुं श्रमः असीत् चेदपि वणिजः विपणीम् उद्घाटितवन्तः। दिल्ली मुम्बै चेन्नै बंगलूरु गुरुग्रां इत्येतेषु ग्रामेषु भङ्गं विना जनाः विचरन्ति। पूर्वोत्तर राज्येषु पश्चिमवंगे ओडीषायां च आक्रमणानि अभवन् इति आवेदनानि सन्ति। केन्द्रसर्वकारस्य कर्मकार विरुद्घप्रक्रमान् विरुद्ध्य भवति अयं समरः।  मेट्रो रेल्यानसेवा विनाविघ्नं प्रचलति।
सौहृदभवनम् छात्रैः निर्मितम्।
-बिजिला किषोरः
  पालक्काड्> गन्धवर्तिका, फेनकं च विक्रीय स्नेहभवनं निर्मान्ति चिट्टिलञ्चेरि एम्.एन्.के.एस् सर्वोच्चविद्यालयस्य विद्यार्थिनः। वर्षद्वयाभ्यन्तरे पञ्चस्नेहभवनानि निर्मीय मित्रेभ्यः दत्तवन्तः।छात्राणांकर्मफलस्यमुल्यम् अस्ति एतस्य पृष्ठतः। एन्.एस्.एस् योजना अपि   छात्रैः सह योगेनेदं कृतवती इति अभिमानस्यविषयः।
   सहपाठिनां दुरितपूर्णजीवनं दृष्ट्वा छात्राः साहाय्यं कर्त़ुम् उद्युक्ताः। मानवसेवायै छात्राणां उत्साहं समर्पणमनोभावं च दृष्ट्वा अध्यापकाः तद्देशीयाः च साहायं दत्तवन्तः। तेन निर्माणप्रक्रिया शीघ्रमभवत्।पञ्चमगृहस्य निर्माणप्रक्रिया परिसमाप्त्यां भवति  षष्ट्यधिकानां छात्राणां प्रयत्नसाफल्यं भवत्येतत्।

Tuesday, January 8, 2019

अकल्पितकर्मनिरासाय निरोधः। 
 कोच्ची  >  केरले आकस्मिकः हर्ताल् नामकः  कर्मनिरासः उच्चन्यायालयेन निरुद्धः। कर्मनिरासाय आह्वानं कुर्वद्भिः राजनैतिकदलैः व्यक्तिभिश्च  सप्तवासरात् पूर्वमेव सामान्यविज्ञापनं समर्पणीयमिति उच्चनीतिपीठेन आदिष्टम्। 
  कर्मनिरासाह्वयिताराणं प्रतिषेधाधिकारः अन्येषां जनानां मौलिकाधिकारनिषेधेन मा भूदिति उच्चन्यायालयेन निर्दिष्टम्। परीक्षामभिव्याप्य छात्रसमूहानाम् अधिकारः अपि संरक्षणीयः इति च मुख्यन्यायाधीशः हृषिकेश रोय् , न्या. ए के जयशङ्करन् नम्प्यारः इत्येतयोः खण्डपीठः आदिशत्।

Monday, January 7, 2019

विमाननिलयस्य नियमानुसारेण भविष्यति 
२०२ रेलस्थानकस्य सुरक्षा, 
विंशतिः निमेषात्‌ पूर्वमेव यात्रिकाः आगन्तव्याः।

-साक्षी चौरसिया
   नवदेहली> रेलस्थानकस्य सुरक्षा विमाननिलयस्य नियमेन तुल्यं भविष्यति इति योजनास्ति। तेेन यात्रिकाणां  विशेष-सुरक्षायाः कृते सुरक्षाबलानां रक्षाशोधनं (checking) भविष्यति। एतस्याः प्रक्रियायाः मध्ये  रेल् पर्यन्तं गमने विलम्बः न भवेत्। तदर्थं यात्रिकाः  प्रायशः विंशतिः निमेषात् पूर्वमेव रेलस्थानकं प्रति आगन्तव्याः। आरम्भे तु एषा व्यवस्था प्रयागस्य तथा कर्णाकस्य हुबली इति  स्थानयोः यथावत् व्यवस्थिता। रेलप्रबन्धनेन द्वयाधिकद्विशतं स्थानकेषु एतादृश्याः सुरक्षायाः कृते योजना कृता। रेलप्रबन्धनसुरक्षणकर्मणः महानिदेशकः अरुणकुमारस्य कथनमस्ति यत् एतेषु सर्वेषु स्थानकेषु प्रयागस्य तथा हुबली इति स्थानस्य यथावत् सुरक्षायाः आवृत्ते कार्यं करिष्यति। एतस्मिन्, रेलस्थानकं पूर्णरूपेण प्रतिरोधितं भविष्यति। रेलप्रबन्धनानां निश्चयः  अस्ति यत् स्थानकं प्रत्यागमनस्य सर्वान् मार्गान् चिह्नितं कृत्वा प्रतिबन्धितं करणीयम् इति।
एष्यन् चषकः - भारतस्य स्वप्नतुल्यप्रारम्भः। 
  अबुदाबी  >  अत्र  प्रारब्धायाम्  एष्यन् चषकपादकन्दुकस्पर्धापरम्परायां भारतस्य प्रथमे प्रतिद्वन्दे भारताय उज्वलविजयः। ताय्लान्ट् राष्ट्रं एकं विरुध्य चतुर्भिः लक्ष्यकन्दुकैः पराजित्य  एव भारतेन स्वप्नतुल्यः प्रारम्भः विरचितः। 
  नायकः सुनिल् छेत्री लक्ष्यकन्दुकयुगलं प्राप्तवान्। अनिरुद्ध थाप्पः, जे जे लाल् पेखुलः इत्येतौ अन्यौ लक्ष्यकन्दुकौ सम्पादितवन्तौ। एष्यन् चषकचरित्रे भारतस्य महत्तमः विजयो भवत्येषः।
द्वितीय लक्ष्यकन्दुकप्राप्त्यनन्तरं भारतनायकःसुनिल् छेत्री प्रोक्षकान् अभिवादयति।

Sunday, January 6, 2019

 राष्ट्रपतिना जिन् पिंङेन चीनसेना युद्ध-सज्जतायै आदिष्टा।
-साक्षी चौरसिया
  ब्रीजिंग्> चीनदेशस्य राष्ट्रपतिना षी-जिन् पिंङेन सैन्यबलस्य परिवर्तनाय विषयेऽस्मिन् विशेष वार्ताङ्कृतम्। शुक्रवासरे तेनोक्तं यत् निजपरिवर्तित वैश्विकसम्पत् कारणेन युद्धसज्जतायाः सर्वावश्यकता पूर्णतया करणीया इति। दक्षिणचीनसागरे अमेरिक्कीयसेनायाः हस्तक्षेपः तथा च ताय्वानेन सह उद्भूते कार्यविषये च चिन्तां अवर्धयत् ।
   वार्ता एजेंसी शिन्हु आनुसारेण, जिन् पिंङेन सेनायाः समक्षं वर्धितावरोधान्, सुरक्षायाः समस्याः तथा तथा सैन्यनिवेशनस्य वर्धनाय चर्चा कृता। तेनोक्तं यत् सेनाः नवयुगाय रणनीतिविषये कार्यङ्करणीयम्। तथा च युद्धस्य सज्जतायाः दायित्वमपि स्वीकरणीयम्। चीनदेशस्य "सेंट्रल मिलिट्री कम्मीषन्" इत्यस्य अध्यक्षः अपि राष्ट्रपति जिनपिंग् भवति।
वार्ता प्रदत्ता। 
विजय मल्ल्यः कान्दिशीकः आर्थिकापराधी - मुम्बई नीतिपीठः। 
   मुम्बई >  वित्तकोशेभ्यः कोटिशः रूप्यकाणि ऋणरूपेणापहृत्य विदेशं गतः मदिराराजः विजय मल्लः काम्दिशीकः आर्थिकापराधी इति मुम्बईस्थेन सविशेषन्यायालयेन प्रख्यापितः। केन्द्रसर्वकारेण गतसंवत्सरे आविष्कृतम् आर्थिकदण्ड-नीतिनियममनुसृत्य अग्रहितापराधिरूपेण प्रख्यापितः प्रथमो भवति विजयमल्लः। 
   आर्थिकापराधान्वेषणसंस्थायाः [Enforcement Directorate - ई डि] अपेक्षामङ्गीकृत्य मुम्बईस्थेन सविशेषनीतिपीठेनैव एतादृशः आदेशः कृतः। अनेनादेशेन  भारते विदेशे च वर्तमानं  मल्लस्य सर्वस्वमादिशतुं तस्य विक्रणयेन ऋणबाध्यतां परिहर्तुं च 'ई डि' संस्थायै अधिकारः लभते। 
   मल्लस्य सर्वस्वहरणविषये न्यायपीठे फेब्रवरी पञ्चमदिने न्यायवादः कारयिष्यते।

Saturday, January 5, 2019

शिशुभ्यः दुबाय् देशः मार्गसुरक्षा शक्तीकृता।
   दुबाय्> दुबाय् मार्गगतागत आयोगेन  मार्गसुरक्षाविधयः शक्तीकृताः। विद्यालय-यानान्‌ विगणय्य यानचालनं कृतवतां दण्डशुल्केन सह यान-चालनानुज्ञापत्रे दश-श्यामबिन्दून् अपि मुद्रणं  करिष्यति।  विद्यालययाने छात्राणाम् आरोहणावरोहणकाले स्थगनफलकं प्रकाश्यते। तस्मिन् समये पृष्टतः आगन्तुकानि यानानि स्थगनीयानि। तदपि पञ्च मीट्टर् पूर्वं भवितव्यानि। नियम-लङ्घकेभ्यः १००० दिर्हं धनं दण्डं प्रदास्यते इति गतागतायोगस्य  निरीक्षणाध्यक्षः मुहम्मद् नब्हानः अवदत्।


Friday, January 4, 2019

मग्गि नूडिल्स् विषलिप्तम् - याचना सर्वेच्चन्यायालयेन परिगण्यते
    नवदिल्ली> अन्ताराष्ट्र खाद्योत्पन्ननिर्माण- व्यवसायभीमं 'नेस्ले इन्द्या' इति संस्थां विरुध्य केन्द्रसर्वकारेण याचिका समर्पिता आसीत्। याचिकेयं सर्वोच्च न्यायालयेन पुनरपि परिगण्यते। नेस्ले संस्थायाः मग्गि नूडिल्स् इति बालकानां प्रियभोज्ये  स्वास्थ्यहानिकरः 'अजिनो मोट्टो' Lead लोहः' च दृश्येते इति कारणतः रोधितः आसीत्। अस्यानुबन्धतया आसीना याचिका परिगणयितुं  सर्वोच्चन्यायालयेन पुनरपि निश्चितम्। मग्गि नूडिल्सस्य 'परिशिष्टांशः' (sample) मैसूरस्थायां केन्द्रीय खाद्यवस्तु-आवेक्षणशालायां परीक्षितम् आसीत्। आवेक्षणशालायाः परीक्षणावेदनस्याधारेण भवति प्रक्रमः इति सर्वोच्चन्यायालयेन उक्तम्।  केन्द्र-भक्ष्यसुरक्षा आयोगेन इदं नूडिल्स् निरुद्धम् आसीत्।

    असत्य-विज्ञापनानि, अधार्मिक विक्रयतन्त्राणि च विरुद्ध्य २०१५ तमे केन्द्रसर्वकारेण उपभोक्तृन्यायालये प्रदत्ता याचिका सर्वेच्चन्यायालयेन निवारिता। किन्तु अधुना लब्धस्य नूतन-परीक्षणावेषणमनुसृत्य भवति भवति न्यायालयस्य नूतनप्रक्रमः।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि, अधिजिगीषुणा संस्कृतच्छात्रेण संस्कृतस्य आधारभूतं ज्ञानं सम्पादयितुं षट् कार्याणि करणीयानि।
 1) शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्।
2) अमरकोशस्य कण्ठस्थीकरणम्।
3) अष्टाध्याय्या: कण्ठस्थीकरणम्।
 4) सिद्धान्तकौमुद्या: बालमनोरमाव्याख्यासहितं सुष्ठु अध्ययनम्।(ससूत्रं रूपसिद्धिं यथा वक्तुं शक्नुयात् तथा।)
 5) पञ्चसु महाकाव्येषु प्रतिमहाकाव्यं न्यूनातिन्यूनं सर्गत्रयस्य  मल्लिनाथव्याख्यानसहितम्(दण्डान्वयखण्डान्वयसहितं च)अध्ययनम्।
5)दिनकरीव्याख्यानसहितं न्यायसिद्धान्तमुक्तावल्या: अध्ययनम्।
मित्राणि, एतदर्थं वयं संस्कृतच्छात्रान् प्रेरयाम:। जयतु संस्कृतम् जयतु भारतम् ।
निर्झर्याम् पतित्वा विद्यार्थी मृतवान्। 
-रम्या पि यु
 
     भुवनेश्वरम् > स्वीयचित्रग्रहणावसरे निर्झर्याम् पतित्वा विद्यार्थी मृतवान्। कट्टकस्वदेशी रोहनमिश्रः एतादृशं दारुणम् मरणम् प्राप्तवान्। ओडीसायाः भीमकुण्डनिर्झर्याः समीपे मयूरबञ्जे एव घटनेयम् प्रवृत्ता। मित्रैस्सह निर्झरीम् प्राप्तः रोहनः स्वीयचित्रग्रहणावसरे स्खलितपादः नद्यामपतत्। अपघाते पतनस्य दृश्यानि समाजमाध्यमेषु प्रचरन्ति।

Thursday, January 3, 2019

जटिलसुरक्षायाः अवरोधान् सम्मुखीकरोति भारतः —  जनरल रावतः
-साक्षी चौरस्या
     नवदेहली, प्रेट >  स्थलसेनायाः अध्यक्षः जनरल-विपिन रावतेन मंगलवासरे उक्तं यत् - भारतम् स्वसीमायां विकटः तथा सक्रियः सुरक्षायाः अवरोधानां सम्मुखीकरणं करोति। तेनोक्तं यत् - एते अवरोधाः देशस्य क्षेत्रीय एकतायाः कृते तथा च आन्तरिक स्थायित्वस्य कृते समस्या रूपेण वर्तन्ते। 
        सैनिकानां कृते नवसंवत्सरस्य शुभकामना सन्देशे सेनायाः प्रमुखः सीमायां संलग्नाः, आतङ्कवादिनां समस्यायाः सम्मुखीकरणे संलग्नायाः सेनायाः परस्परदृढ़ता, निश्चिता तथा कार्यस्य प्रशंसाङ्कृतम्।  तथापि, तेन जम्मूकाश्मीरे नियंत्रणस्य रेखा तथा चीनदेशेन सह विद्यमानायाः चतुर्दश कि. मी. दीर्घायाः सीमायाः विषये किमपि नोक्तम्। सेनायाः प्रमुखः स्वसैन्यदलस्य द्वादशलक्षसैनिकान् प्रति देशस्य समक्षं अवरोधितानां समस्यानां निवारणे अत्युत्साहेन कार्यसम्पादनाय निवेदितवान्।
         जनरल् रावत्तेन स्वसेना विश्वस्य सर्वाधिका अनुशासिता तथा प्रोफषणल् इत्यस्मिन्  विषये उक्तं यत् अमुं गौरवं पूर्णगरिमया  तथा सम्मानेन सह यथापूर्वं यथापूर्वं संरक्षणीयम् इति। सेनायाः अध्यक्षः केरले जलोपप्लव समये सेनाया कृतस्य उत्तमस्य  कार्यस्य तथा संयुक्त राष्ट्राभियाने कृतस्य कार्यस्यापि उल्लेखं कृतवान्I ज्ञायते यत्- भारतीयसेना जम्मू-काश्मीरे नियंत्रणरेखायां पाकिस्तानसेनायाः व्यर्थद्वन्द्वेन दुर्घटनाया तथा आगंतुकेभ्यः निवारणे च संलग्नाः। सार्धमेव डोकलाम प्रकरणस्य पश्चात् तया चीनदेशस्य सीमया सह संयुक्तेषु प्रमुखेषु स्थानेषु अवस्कन्दनमपि वर्धितम्।

Wednesday, January 2, 2019

  षैक् हसीना पुनरपि प्रधानमन्त्रिणी। 
जन सुरक्षा, आर्थिकपरिष्करणं च  प्रथमं कर्तव्यम्।
नियुक्तप्रधानमन्त्रिणी षैक् हसीना 


  धाक्का> बङ्गलादेशराष्ट्रे गतदिने सम्पन्ने सामाजिकनिर्वाचने प्रधानमन्त्रिण्यः षैक् हसीनायाः नेतृत्वे विद्यमानस्य 'अवामी लीग् पार्टी' दलस्य महान् विजयः। आहत्य  ३५० अङ्गयुक्तायां देशीयविधानसभायां सम्पन्ननिर्वाचनेषु २९९ स्थानेषु २८८ स्थानेषु अवामीदलाय उज्वलविजयः सम्प्राप्तः। मुख्यविपक्षदलाय 'बङ्गलादेश् नाषणल् पार्टि' दलाय केवलं षट् स्थानानि प्राप्तानि।
    राष्ट्रे आरब्धस्य आर्थिकपरिष्करणस्य अनुवर्तनाय , जनानां सुरक्षां दृढीकर्तुं च स्वस्य प्रथमपरिगणनेति स्वस्य दलस्य उज्वलविजये सन्तुष्टिं प्रकाशयन्ती षैक् हसीना वार्ताहरान् प्रति अवदत्। "प्रधानमन्त्रिरूपेण स्वकीयमुत्तरदायित्वं सर्वेभ्यः बङ्गलदेशीयेभ्यः विभज्य दातुमिच्छामि। स्वस्य नेतृत्वे सम्भूतेन भूतपूर्वसर्वकारेण नैकाः अभियोजनाः अङ्गीकृताः। तासां पूर्तीकरणमावश्यकम्" हसीना अवदत्।
   निर्वाचने कृत्रिमाः  सम्पन्नाः इत्यादिक्षेपारोपाः हसीनया निरस्ताः। जनुवरी दशमदिनाङ्कात् पूर्वं नूतनमन्त्रिसभायाः शपथकार्यक्रमः भविष्यतीति अवामी लीग् दलवृत्तैः निगदितम्।

Tuesday, January 1, 2019

शिवगिरौ तीर्थाटकानां प्रवाहः।
   वर्क्कल - केरलम्> ८६ तमस्य शिवगिरि तीर्थाटनस्य समापान्नदिने उषसि पञ्चवादने तीर्थाटनघोषयात्रा श्रीनारायणगुरोः समाधिगृहात् समारब्धा। अन्तरं घोषयात्रामेलनं कर्णाटकस्य राज्यपालः वज्जु भाय् वाल उद्‌घाटितवान्। अद्य तीर्थाटनं सम्पद्यते
आविश्वं जनाः नवसंवत्सरस्य स्वागतम् अकुर्वन्I  
सिड्णि देशस्य नववर्षीय समारोहः।
         भारतसमयः सायं सार्धत्रिवादने पसफिक् समुद्रे किरिबात्ति द्वीपे आसीत् २०१८ संवत्ससरस्य प्रथम सन्दर्शनम्। तत्रत्यानां जनानाम् उपचारान् स्वीकृत्य ततः सार्ध चतुर्वादने न्यूसिलन्टस्य ओक्लान्ट् देशे समागतः  संवत्सरः। ओक् लान्टस्य कै स्तम्भं परितः पञ्चनिमेषपर्यन्तं जायमान विस्फोटकादि आह्लाद निमिषेण दशसहस्रशाः जनाः २०१९ संवत्सरं स्वागतमकुर्वन्। 
      एक घण्डाभ्यन्तरे ओस्ट्रेलिया देशस्य सिड्णि मेल्बण् नगरं प्रापवान् संवत्सरः।  विस्फोटकेन इन्द्रचापरूपं विरच्य आसीत् तत्रत्यानां स्वागत-समारोहः। अनन्तरम् एक घण्डाभ्यन्तरेण चीना, सिंहपुरम्, इन्टोनेष्या बंग्लादेशं च संक्रम्य भारतदेशं प्राप्तः।  भारतस्य प्रधान नगरेषु तारनिशादयः आयोजिताः आसन्।  भारतीयानाम् अर्घ्योपचारक्रमानास्वाद्य सार्ध एकवादने दुबाय् नगरं प्राप्तः। तत्र बुर्ज् खलीफायां आसीत् स्वागत समारोहः।
      एक घण्डाभ्यन्तरेण मोस्को, माण्ड्रिड् च । यामस्य अन्तिमकालांशे सार्धचतुर्वादने रेम् नगरे पारीसे च प्राप्तः नवसंवत्सरः। पञ्च चत्वारिंशत् वादने लन्टनस्थाः तेषां स्वागतं सानन्दम् अकुर्वन्। इदानीं समयः सार्धदशवादनः अमेरिक्कां प्राप्य तत्रत्यानां स्नेहोष्मलतां लब्ध्वा सानन्दमास्वाद्य व्याप्यतेकालः विश्वमखिलम्।
सर्वेषां कृते सम्प्रतिवार्ता-पत्रिकायाः शुभकामनाः। गुरुपादैः अनुगृहीताः वयं भवन्तं अभिवादयामहे। 

Monday, December 31, 2018

दिव्यचक्षुषेभ्यः रूप्यकपत्राणि प्रत्यभिज्ञातुं RBI नूतनसुविधा आयोक्ष्यते।
       नवदिल्ली>  दिव्यचक्षुषेभ्यः रूप्यकपत्राणि प्रत्यभिज्ञातुं सर्वोच्च-वित्तकोशेन नूतनसुविधा आयोक्ष्यते। समर्थदूरवाण्यां सुविधां सन्निविश्य उपयोक्तुम्   वित्तकोशेन नूतनाशयः निमन्त्रितः। इदानीं 'इन्टाल्जियो' इति मुद्रणविद्याम्  एव मूल्यग्रहणाय एते उपयु ज्यन्ते। शते तथा शतो परि च विद्यमानेषु  रूप्यकपत्रेषु एव भवन्ति इयं सुविधा। मूल्यग्रहणाय रूप्यकाणि दूरवाण्याः पुरतः अथवा अन्तः स्थापनीयानि। तदा निमषद्वयानन्तरं रूप्यकस्य मूल्यं हिन्दी तथा अङ्गलेयभाषाभ्यां श्रावितव्यम् इत्यस्ति 'टेन्टर्' पत्रे। समर्थदूरवाण्यां अन्तजालं विना सुविधा प्रवर्तनक्षमा भवेत्। 'हार्ड्वेर्' उपयुज्य प्रवर्तमानः उपकरणः चेत्‌ विद्युत्कोशेन प्रवर्तमानः भवेत्। नूतनोपकरणं दिव्य चक्षुषां कृते उपकारकं भवेत् इति मन्यन्ते वित्तकोशाधिकारिणः।
मृणाल् सेन् दिवंगतः। 
 कोल्कोत्ता  >  विख्यातः चलच्चित्रकारः दादा साहिब् फाल्के पुरस्कारजेता मृणाल् सेन् निर्यातः। पञ्चनवति वयस्कस्य तस्य मृत्युः ह्यः कोल्कत्तायां स्वभवने  आसीत्। 
   भारते नवतरङ्गचलच्चित्रसरण्याः आधारशिलास्थापकेषु प्रमुख आसीत् मृणालसेनः। सत्यजित् राय, ऋत्विक् घट्टक् इत्येताभ्यां साकं १९६० कालखण्डेषु भारतीयचलच्चित्रसङ्कल्पने नवीनं पन्थानं समुद्घाटितवानयम्। श्रेष्ठचित्राय दीयमानः देशीयपुरस्कारः चतुर्वारमनेन प्राप्तः। तथा च बह्वीषु अन्ताराष्ट्रवेदिकासु तस्य चित्राणि प्रदर्श्य बहुमतीः प्राप्ताश्च। 
  १९९८ आरभ्य २००३पर्यन्तं राज्यसभाङ्गः आसीत् मृणालसेनः। पद्मभूषणपुरस्कारेण आदृतः च।
मृणालसेनः।

Sunday, December 30, 2018

अङ्गारगर्ते लग्नाः पञ्चदश कर्मकराः, 
परित्राणाभियोगः १८ तमे दिने अपि अनुवर्तते,
शिरस्त्राणानि त्रीणि प्राप्तानि।
-साक्षी चौरसिया
  शिलाङ्गम् >  मेघालयस्य जयंतिया हिल्स् जनपदस्य अवैध अङ्गारगर्ते लग्नानां  पञ्चदश कर्मकराणां अष्टाविंशति दिनात् परमपि कापि सूचना नास्ति।  तेषां अन्वेषणाय शनिवासरे अपि रेस्क्यू ऑपरेशन् प्रचलन्नस्ति। परित्राण दलेन शिरस्त्राणानि त्रीणि प्राप्तानि। एते कर्मकराः दिसम्बरमासस्य त्रयोदशदिनाङ्कतः एव अत्र लग्नाः सन्ति।

    सप्तत्यधिकत्रिशतं पाददीर्घिते अङ्‌गर गर्ते अस्मिन् सप्तति पादपर्यन्तं जलं अस्ति। जलस्य निष्कासनाय NDRF इत्यस्य दलस्य आह्वानान्तरं वायुसेनायाः एकं विमानं शुक्रवासरे एकविंशतिः सैनिकैः सह शतं अश्वशक्त्तियुक्तं      (100 Horse Power) दश जलयन्त्रं स्वीकृत्य प्रस्थितम्।  तत्रैव, विशाखापट्टणतः नाविकसेनायाः निमज्जनसमर्थाः  अभियाने भागं कर्तुम् आगच्छन्तः सन्ति। ओडिशातः अग्निरोधक-सेवा (फायर् सर्विस) दलस्य विंशतिः जनाः कार्येऽस्मिन्  सहयोगः करिष्यन्ति। 

   "किर्लोस्कर" इत्यस्य दलम् अपि सहयोगार्थं प्रस्थितः अस्ति। द्वयोः दलयोः अपेक्षया सुरक्षाभियाने NDRF, SDRF तथा च स्थानीयदलै: सह कार्ये संलग्नाः। एतान् विहाय निजी कम्पनी किर्लोस्कर् एतस्य कार्यकर्तारः  च अतिशक्तेन जलयन्त्रेण सह पूर्वमेव गतवन्तः। एतया कम्पनी द्वारा इंडोनेशियायाः गुहायां लग्नानां पादकन्दुक-क्रीडकानां परित्राणाभियाने उपकरणानि प्रेषितानि। एतस्मात् पूर्वं NDRF एतेनोक्तं यत् - अङ्गारगर्ते जलस्तर-निरीक्षणाय निमज्जनसमर्थाः  क्रेनयानेन अवतरितम्। पञ्चदश निमेषानन्तरं तेन सीटीकाध्वनिना सूचितं तदा तान् उपरि कर्णितम्। तैरुक्तं गर्तात् दुर्गन्धः आगच्छतीति। एतत् सम्यक् सङ्केतं नास्ति। अधुना समेषामाशा न्यूना। यतोहि चमत्काराः तु भवन्त्येव तथा वयं स्वयं आशां न त्यजाम:।
हिमपाते लग्नाः सञ्चारिणः सैन्येन रक्षिताः। 
 गाङ्टोक्  >  भारत-चीनासीमासमीपे तीव्रे हिमपाते लग्नाः २५०० विनोदसञ्चारिणः भारतसैन्येन रक्षिताः। पूर्वसिक्किमजनपदस्थे कस्मिंश्चित् स्थाने आसीत् गतागतस्थगनं  संवृत्तम्। 'नाथुला कन्दरः' , झोङ्गोनदी इत्येतयोः स्थानयोः प्रतिनिवृत्ताः विनोदसञ्चारिणः एव यात्रामनवर्तितुम् अशक्ताः सन्तः अवर्तन्त। 
   भारतसैन्यं यथासमयं एतान् दुर्घटनातः संरक्ष्य सुरक्षाशिबिरं अनयदिति पूर्वसिक्किमस्य जनपदन्यायमूर्तिणा कपिल् मीना इत्यनेनोक्तम्।यावच्छीघ्रं यात्रिकान् राजधानीं प्रापयितुं पदक्षेपः कृत इति तेन निगदितम्।