OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 9, 2019

सौहृदभवनम् छात्रैः निर्मितम्।
-बिजिला किषोरः
  पालक्काड्> गन्धवर्तिका, फेनकं च विक्रीय स्नेहभवनं निर्मान्ति चिट्टिलञ्चेरि एम्.एन्.के.एस् सर्वोच्चविद्यालयस्य विद्यार्थिनः। वर्षद्वयाभ्यन्तरे पञ्चस्नेहभवनानि निर्मीय मित्रेभ्यः दत्तवन्तः।छात्राणांकर्मफलस्यमुल्यम् अस्ति एतस्य पृष्ठतः। एन्.एस्.एस् योजना अपि   छात्रैः सह योगेनेदं कृतवती इति अभिमानस्यविषयः।
   सहपाठिनां दुरितपूर्णजीवनं दृष्ट्वा छात्राः साहाय्यं कर्त़ुम् उद्युक्ताः। मानवसेवायै छात्राणां उत्साहं समर्पणमनोभावं च दृष्ट्वा अध्यापकाः तद्देशीयाः च साहायं दत्तवन्तः। तेन निर्माणप्रक्रिया शीघ्रमभवत्।पञ्चमगृहस्य निर्माणप्रक्रिया परिसमाप्त्यां भवति  षष्ट्यधिकानां छात्राणां प्रयत्नसाफल्यं भवत्येतत्।