OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 8, 2019

अकल्पितकर्मनिरासाय निरोधः। 
 कोच्ची  >  केरले आकस्मिकः हर्ताल् नामकः  कर्मनिरासः उच्चन्यायालयेन निरुद्धः। कर्मनिरासाय आह्वानं कुर्वद्भिः राजनैतिकदलैः व्यक्तिभिश्च  सप्तवासरात् पूर्वमेव सामान्यविज्ञापनं समर्पणीयमिति उच्चनीतिपीठेन आदिष्टम्। 
  कर्मनिरासाह्वयिताराणं प्रतिषेधाधिकारः अन्येषां जनानां मौलिकाधिकारनिषेधेन मा भूदिति उच्चन्यायालयेन निर्दिष्टम्। परीक्षामभिव्याप्य छात्रसमूहानाम् अधिकारः अपि संरक्षणीयः इति च मुख्यन्यायाधीशः हृषिकेश रोय् , न्या. ए के जयशङ्करन् नम्प्यारः इत्येतयोः खण्डपीठः आदिशत्।