OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 7, 2019

विमाननिलयस्य नियमानुसारेण भविष्यति 
२०२ रेलस्थानकस्य सुरक्षा, 
विंशतिः निमेषात्‌ पूर्वमेव यात्रिकाः आगन्तव्याः।

-साक्षी चौरसिया
   नवदेहली> रेलस्थानकस्य सुरक्षा विमाननिलयस्य नियमेन तुल्यं भविष्यति इति योजनास्ति। तेेन यात्रिकाणां  विशेष-सुरक्षायाः कृते सुरक्षाबलानां रक्षाशोधनं (checking) भविष्यति। एतस्याः प्रक्रियायाः मध्ये  रेल् पर्यन्तं गमने विलम्बः न भवेत्। तदर्थं यात्रिकाः  प्रायशः विंशतिः निमेषात् पूर्वमेव रेलस्थानकं प्रति आगन्तव्याः। आरम्भे तु एषा व्यवस्था प्रयागस्य तथा कर्णाकस्य हुबली इति  स्थानयोः यथावत् व्यवस्थिता। रेलप्रबन्धनेन द्वयाधिकद्विशतं स्थानकेषु एतादृश्याः सुरक्षायाः कृते योजना कृता। रेलप्रबन्धनसुरक्षणकर्मणः महानिदेशकः अरुणकुमारस्य कथनमस्ति यत् एतेषु सर्वेषु स्थानकेषु प्रयागस्य तथा हुबली इति स्थानस्य यथावत् सुरक्षायाः आवृत्ते कार्यं करिष्यति। एतस्मिन्, रेलस्थानकं पूर्णरूपेण प्रतिरोधितं भविष्यति। रेलप्रबन्धनानां निश्चयः  अस्ति यत् स्थानकं प्रत्यागमनस्य सर्वान् मार्गान् चिह्नितं कृत्वा प्रतिबन्धितं करणीयम् इति।