OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 11, 2019

अयोध्या याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि परीक्ष्यन्ते।
      नवदिल्ली> अयोध्या विवादानुबन्ध-याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि सर्वोच्चन्यायालयेन आवेक्ष्यन्ते। संस्कृतं, हिन्दी, उर्दु, अरबिक्, पेर्स्यन्, गुरुमुखी भाषाभ्यः प्रमाणपत्राणाम् अनुवादः करणीयः। याचिकायां प्रमाणानि अधिकृत्य विवादः अस्ति इति कारणेन अनुवादकरणाय भाषानुवादकानां साहाय्यं प्रार्थयितुं  न्यायालयेन निश्चितम्।
     अवसरेऽस्मिन् न्यायवादश्रवणकर्तव्यात् न्यायाधीशः यु यु ललितः प्रतिनिवृत्तवान्। अतः वादश्रवणतिथिः जनुवरि २९ इति परिवर्तिता। मुख्यन्यायाधीशस्य आध्यक्ष्ये २९ दिनाङ्के वादश्रवणः समारभ्यते।