OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 10, 2019

आयोध्याव्यवहारः पञ्चाङ्गपीठेन श्रूयते ; विषयः अद्य परिगण्यते। 
 नवदिल्ली  >  अयोध्याभूमितर्कव्यवहारं श्रोतुं पञ्चाङ्गात्मकः  शासनसंविधानपीठः रूपवत्कृतः। मुख्यन्यायाधीशः रञ्जन् गोगोय्, न्यायाधीशाः एस् ए बोब् डे , एन् वि रमणः , यू यू ललितः , डि वै चन्द्रचूडः इत्येतैः अन्तर्गणितः शासनविधानात्ममकः नीतिपीठः अद्य 'रामजन्ममभूमि - बाबरि मस्जिद् भूमितर्कविषयं' परिगणयति। 
   २०१० तमे संवत्सरे अलहबाद् उच्चन्यायालयेन विज्ञापितं विधिप्रस्तावं विरुध्य १४ पुनर्विचारप्रार्थनाः सर्वोच्चन्यायालये समर्पिताः। तर्कस्थाने राममन्दिरनिर्माणं शीघ्रमेव आरब्धुं निदेशः प्रस्ताव्यः इत्यावश्यमुद्घोषयन्तः विविधाः हैन्दवसंघटनाः मञ्चं प्रविष्टवन्तः अपि न्यायालय निर्णयस्याधारे एव अस्मिन् विषये निर्णयः स्वीकरिष्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्।