OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 12, 2019

अफगानिस्तानदेशे भारतस्य तात्पर्यः नास्ति ; तालिबानेन सह वार्तालापे भारतं बहिः नास्ति— सेनाप्रमुखः।
-साक्षी चौरसिया
     नवदेहली > सेनायाः प्रमुखेन बिपिनरावतेन देहल्यां वार्षिकसम्मेलने प्रथमवारं अफगानिस्तानस्य विषयोपरि कथितम्। रावतेनोक्तं यत् यदि भारतस्य अफ्गानिस्थानेन सह कोऽपि सम्बन्धः अस्ति, तर्हि तु तालिबानेन सह वार्तालापं कुर्वत्सु देशेषु अस्मासु अपि सहयोगः भवितव्यः।
      गतवर्षे अफगानिस्थाने शांति इति विषये वार्तालापार्थं रूसदेशेन भारतं आमन्त्रितम्। भारतेन एतस्मिन् विषये अनौपचारिकतया  सहयोगः कृतः। एतत् प्रथमवारमासीत् यदा भारतं तालिबानेन सह मञ्चं साक्षात्कृतवत्। यतोहि, अफगानिस्तानस्य स्थित्यां भारतस्य आधिकारिकनीतिः तालिबानेन सह सम्मिलितं भविष्यति इति ज्ञायते। यतोहि, अमेरिका, रूस, ईरान्, तथा पाकिस्तान् इत्येतानि राष्ट्राणि तालिबानेन सह वार्तालापे सम्मिलितानि आसन्।