OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 3, 2019

जटिलसुरक्षायाः अवरोधान् सम्मुखीकरोति भारतः —  जनरल रावतः
-साक्षी चौरस्या
     नवदेहली, प्रेट >  स्थलसेनायाः अध्यक्षः जनरल-विपिन रावतेन मंगलवासरे उक्तं यत् - भारतम् स्वसीमायां विकटः तथा सक्रियः सुरक्षायाः अवरोधानां सम्मुखीकरणं करोति। तेनोक्तं यत् - एते अवरोधाः देशस्य क्षेत्रीय एकतायाः कृते तथा च आन्तरिक स्थायित्वस्य कृते समस्या रूपेण वर्तन्ते। 
        सैनिकानां कृते नवसंवत्सरस्य शुभकामना सन्देशे सेनायाः प्रमुखः सीमायां संलग्नाः, आतङ्कवादिनां समस्यायाः सम्मुखीकरणे संलग्नायाः सेनायाः परस्परदृढ़ता, निश्चिता तथा कार्यस्य प्रशंसाङ्कृतम्।  तथापि, तेन जम्मूकाश्मीरे नियंत्रणस्य रेखा तथा चीनदेशेन सह विद्यमानायाः चतुर्दश कि. मी. दीर्घायाः सीमायाः विषये किमपि नोक्तम्। सेनायाः प्रमुखः स्वसैन्यदलस्य द्वादशलक्षसैनिकान् प्रति देशस्य समक्षं अवरोधितानां समस्यानां निवारणे अत्युत्साहेन कार्यसम्पादनाय निवेदितवान्।
         जनरल् रावत्तेन स्वसेना विश्वस्य सर्वाधिका अनुशासिता तथा प्रोफषणल् इत्यस्मिन्  विषये उक्तं यत् अमुं गौरवं पूर्णगरिमया  तथा सम्मानेन सह यथापूर्वं यथापूर्वं संरक्षणीयम् इति। सेनायाः अध्यक्षः केरले जलोपप्लव समये सेनाया कृतस्य उत्तमस्य  कार्यस्य तथा संयुक्त राष्ट्राभियाने कृतस्य कार्यस्यापि उल्लेखं कृतवान्I ज्ञायते यत्- भारतीयसेना जम्मू-काश्मीरे नियंत्रणरेखायां पाकिस्तानसेनायाः व्यर्थद्वन्द्वेन दुर्घटनाया तथा आगंतुकेभ्यः निवारणे च संलग्नाः। सार्धमेव डोकलाम प्रकरणस्य पश्चात् तया चीनदेशस्य सीमया सह संयुक्तेषु प्रमुखेषु स्थानेषु अवस्कन्दनमपि वर्धितम्।