OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 31, 2018

दिव्यचक्षुषेभ्यः रूप्यकपत्राणि प्रत्यभिज्ञातुं RBI नूतनसुविधा आयोक्ष्यते।
       नवदिल्ली>  दिव्यचक्षुषेभ्यः रूप्यकपत्राणि प्रत्यभिज्ञातुं सर्वोच्च-वित्तकोशेन नूतनसुविधा आयोक्ष्यते। समर्थदूरवाण्यां सुविधां सन्निविश्य उपयोक्तुम्   वित्तकोशेन नूतनाशयः निमन्त्रितः। इदानीं 'इन्टाल्जियो' इति मुद्रणविद्याम्  एव मूल्यग्रहणाय एते उपयु ज्यन्ते। शते तथा शतो परि च विद्यमानेषु  रूप्यकपत्रेषु एव भवन्ति इयं सुविधा। मूल्यग्रहणाय रूप्यकाणि दूरवाण्याः पुरतः अथवा अन्तः स्थापनीयानि। तदा निमषद्वयानन्तरं रूप्यकस्य मूल्यं हिन्दी तथा अङ्गलेयभाषाभ्यां श्रावितव्यम् इत्यस्ति 'टेन्टर्' पत्रे। समर्थदूरवाण्यां अन्तजालं विना सुविधा प्रवर्तनक्षमा भवेत्। 'हार्ड्वेर्' उपयुज्य प्रवर्तमानः उपकरणः चेत्‌ विद्युत्कोशेन प्रवर्तमानः भवेत्। नूतनोपकरणं दिव्य चक्षुषां कृते उपकारकं भवेत् इति मन्यन्ते वित्तकोशाधिकारिणः।