OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 31, 2018

मृणाल् सेन् दिवंगतः। 
 कोल्कोत्ता  >  विख्यातः चलच्चित्रकारः दादा साहिब् फाल्के पुरस्कारजेता मृणाल् सेन् निर्यातः। पञ्चनवति वयस्कस्य तस्य मृत्युः ह्यः कोल्कत्तायां स्वभवने  आसीत्। 
   भारते नवतरङ्गचलच्चित्रसरण्याः आधारशिलास्थापकेषु प्रमुख आसीत् मृणालसेनः। सत्यजित् राय, ऋत्विक् घट्टक् इत्येताभ्यां साकं १९६० कालखण्डेषु भारतीयचलच्चित्रसङ्कल्पने नवीनं पन्थानं समुद्घाटितवानयम्। श्रेष्ठचित्राय दीयमानः देशीयपुरस्कारः चतुर्वारमनेन प्राप्तः। तथा च बह्वीषु अन्ताराष्ट्रवेदिकासु तस्य चित्राणि प्रदर्श्य बहुमतीः प्राप्ताश्च। 
  १९९८ आरभ्य २००३पर्यन्तं राज्यसभाङ्गः आसीत् मृणालसेनः। पद्मभूषणपुरस्कारेण आदृतः च।
मृणालसेनः।