जीवजलस्य कृते श्रीमान् नारायणाय मोदिनः अभिनन्दनानि।
OUR YouTube Channel 1. SampratiVartah |
marquee
Monday, March 28, 2022
Sunday, March 27, 2022
सर्वकारं प्रति 'सविनयं' नावश्यकम्।
अनन्तपुरी> केरले सर्वकारीयसंस्थाः अभिव्याप्य सर्वकारीय-अर्धसर्वकारीय-सामान्यमण्डलसंस्थासु समर्प्यमानासु सामान्यजनानामभ्यर्थनासु 'विनम्रतया' इत्यर्थकं पदं नावश्यकमिति। राज्यस्य प्रशासनपरिष्कारविभस्यायमादेशः। सविनयमिति पदं परित्यज्य अभ्यर्थ्यते अपेक्षते वा इत्युपयोक्तुं शक्यते।
चरकशपथम्' अधुना नास्ति।
नवदिल्ली> वैद्यकीयछात्राणां बिरुददानवेलायां 'हिप्पोक्राट्टीयशपथं' विसृज्य 'महर्षि चरकशपथम्' अन्तर्भावयितुं राष्ट्रिय वैद्यक आयोगस्य उपदेशं शीघ्रं न विधास्यतीति केन्द्रप्रशासनेन निर्णीतम्। विषयेऽस्मिन् स्वास्थ्यमन्त्रालयेन अद्यावधि निर्णयः न कृत इति लोकसभायां केषाञ्चित् सदस्यानां प्रश्नानां प्रतिवचनरूपेण स्वास्थ्यसहमन्त्री भारती पर्वीण् पवारः उक्तवान्।
युक्रेनाय बैडनस्य अधिकसैनिकसाह्यवाग्दानम्।
वार्सा> रषियां प्रतिरोद्धुं युक्रेनाय अधिकतया सैनिकसाह्यं करिष्यामीति अमेरिक्कायाः राष्ट्रपतिः जो बैडनः वाग्दानमकरोत्। चतुर्दिवसीयसन्दर्शनाय पोलण्टराष्ट्रं प्राप्तवान् बैडनः युक्रेनीयमन्त्रिभिस्सह कृते अभिमुखे एव वृत्तान्तमिदं न्यवेदयत्। युक्रेनस्य विदेशमन्त्री, रक्षामन्त्री, अमेरिक्कायाः विदेश-रक्षासचिवौ इत्यादयः समुपवेशने भागं कृतवन्तः।
युक्रेनस्य आर्थिक मानवीय लक्ष्याणां च सर्वविधसहयोगाः अमेरिक्कया वाग्दत्ताः।
अद्य अर्धरात्रादारभ्य राष्ट्रियकर्मविरामः; अवश्यसेवाः परिवर्जिताः।
नवदिल्ली> केन्द्रसर्वकारं विरुध्य विपक्षदलीयैः संयुक्तकर्मचारिसंघटनैः उद्घुष्टं दिनद्वयस्य देशीयकर्मविरामान्दोलनं अद्य अर्धरात्रे आरभते। किन्तु क्षीर-वार्तापत्र-आतुरालयादीनि अत्यन्तापेक्षितानि सेवनानि कर्मविरामान्दोलनात् परिवर्जितानि।
मार्च् २७ रात्रौ १२ वादनतः २९ रात्रौ १२ वादनपर्यन्तमेवान्दोलनम्।
वार्तामुद्रणकाकदस्य दौलभ्यतया श्रीलङ्कायां वार्तापत्रद्वयस्य प्रकाशनम् अवरुद्धम्।
कोलम्बो> श्रीलङ्कायां आर्थिकसङ्कटकारणेन जातस्य वार्तामुद्रणकाकदस्य दौलभ्यतया मूल्यवर्धनहेतुना च वार्तापत्रद्वयस्य प्रकाशनं स्थगितम्। वार्तामुद्रणकाकद-दौलभ्यतया 'द ऐलण्ड्' नाम आङ्गलेयवार्तापत्रिकायाः तथा दिवयीन नाम सिंहलवार्तापत्रिकायाः च मुद्रणं तत्कालिकतया बन्धितम्। १९८१ संवत्सरादारभ्य प्रकाश्यमाना 'द ऐलण्ड्' नाम दिनपत्रिका इ -पत्रिका रूपेण प्रवर्तते इति अधिकारिभिः प्रतिवेदितम्।
Saturday, March 26, 2022
उत्तरप्रदेशे योगी आदित्यनाथः पुनरपि मुख्यमन्त्रिपदमारूढवान्।
लख्नौ> भा ज पा नेता योगी आदित्यनाथः अविरामेण द्वितीयवारमपि उत्तरप्रदेशस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। द्वौ उपमुख्यमन्त्रिणौ अभिभूय ५२ मन्त्रिणश्च तेन सह शपथवाचनं कृत्वा अधिकारं प्राप्तवन्तः।
लख्नौस्थे ए बि वाजपेयी क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः आनन्दीबन् पट्टेलः शपथवाचनं कारितवान्। प्रधानमन्त्री नरेन्द्रमोदी, राजनाथसिंहः, अमितषाहः, स्मृति इरानी इत्यादयोSपि कार्यक्रमे सन्निहिताः आसन्।
इम्रान् खानं विरुद्ध्य अविश्वासप्रमेयः न परिगणितः।
इस्लामबाद्> पाकिस्थानप्रधानमन्त्रिणं इम्रान् खानं विरुध्य विमतपक्षेण समर्पितः अविश्वासप्रमेयपत्रं पाकिस्थानसंसदा शुक्रवासरे न परिगणितम्। सदस्यः खायल् समन् इत्यस्य देहवियोगे श्रद्धाञ्जलिं प्रकाश्य सोमवासरपर्यन्तं सभा अवष्टम्भिता। गतदिनस्य कार्यक्रमेषु अविश्वासप्रमेयपत्रं नान्तर्भावितमित्यतः विपक्षदलीयैः प्रतिषिद्धमासीत्।
पाकिस्थानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रान् खानस्य विलक्षितनयाः इत्यारोप्य मार्च् ८ तमे उपशतं विपक्षसदस्याः अविश्वासप्रमेयपत्रं समर्पितवन्तः। इम्रान् खानस्य दलात् २५ विमतसदस्याः अपि प्रमेयानुकूलिनः भविष्यन्तीति वृत्तान्तं बहिरागतम्।
Friday, March 25, 2022
रूसीयभीषा - पूर्वयूरोपे ४०,००० भटाः विन्यस्ताः भविष्यन्तीति 'नाटो'।
ब्रसल्स्> युक्रैने रूस् राष्ट्रस्य अधिनिवेशः अनुवर्तमानः वर्तते इत्यतः यूोरोपभूखण्डस्य पूर्वभागे सैनिकबलं वर्धापयितुं नाटोनामकराष्ट्रसख्येन निश्चितम्। तदर्थं ४०,००० भटान् विन्यस्तुं बल्जियस्य राजधान्यां - ब्रसल्स् नगरे- सम्पन्ने नाटोराष्ट्राधिपतीनाम् उपवेशने निर्णीतम्।
पूर्वयूरोपस्य वायु-नाविकसंविधानानि विपुलीकरिष्यति। 'सैबर्' आक्रमणानि प्रतिरोद्धुं पदक्षेपान् स्वीकरिष्यन्ते। रासजैवाणवाक्रमणानि प्रतिरोद्धुं युक्रेनाय साह्यं करिष्यतीति च नाटो इत्यस्य सचिवप्रमुखेन जेन्स् स्टोल्टन् बर्ग् इत्यनेन निगदितम्।
Thursday, March 24, 2022
इन्धनमूल्यं वर्धमानं; जीवनक्लेशोSपि वर्धते।
कोच्ची> सार्धचतुर्मासानां विरामकालानन्तरं पेट्रोल्, डीसल्, पाकेन्धनमित्यादीनां मूल्यं संवर्धितम्। वाहनेन्धनस्य मूल्यं तु प्रतिदिनम् उपैकरूप्यमिति क्रमेण वर्धमानमस्ति। पाकेन्धनस्य मूल्यं गतदिने ५० रूप्यकाणि वर्धयति स्म। अतः जनानां जीवनव्ययः अपि वर्धते स्म।
गतवर्षे मार्च् मासे पेट्रोल् तैलस्य मूल्यं ९३. ०५ रूप्यकाणि आसीत्। गतदिने तु तत् १०८. ११ अभवत्। डीसलिन्धनस्य मूल्ये ८ रूप्यकाणां वर्धनमभवत्।
Wednesday, March 23, 2022
श्रीलङ्कायाम् आर्थिकसमस्या; दुर्भिक्षभीत्या जनाः पलायन्ते।
कोलम्बो> आर्थिकसमस्यया श्रीलङ्का महान्तं क्लेशमनुभवति। जनजीवनं दुस्सहमभवत्। दौर्भिक्ष्यं भविष्यतीति मत्वा जनाः पलायनमारभन्त। षट् श्रीलङ्कीयनागरिकाः गतदिने तमिल्नाटे रामेश्वरं प्राप्ताः। भारत तटसंरक्षणसेनया ते परिप्रश्नविधेयाः कृताः।
अवश्यवस्तूनां मूल्यातिवर्धनमभवत्। मूल्यातिवर्धनस्य दुर्भिक्षस्य च हेतोः पेट्रोल्-डीसल् तैलादीनां नियन्त्रणं विधत्तम्। पाकवातानिलकोशस्य मूल्यं १३५९ भारतीयरूप्यकाणि अभवत्। विद्युन्निलयाः पिहिताः। एकलिटर् परिमितस्य पेट्रोल् तैलस्य मूल्यं २८३ श्रीलङ्कीयरूप्यकाणि अभवत्। डीसलाय १७६ रूप्यकाणि दातव्यानि। १ लिटर् क्षीरं - २६३, १ किलो तण्डुलं - ४४८ रूप्यकाणि। एतादृशरीत्या एव श्रीलङ्कायाम् अवश्यवस्तूनां मूल्यवर्धनम्। कोविड्महामारेः अनन्तरफलमेव आर्थिकसमस्यया कारणमिति सूच्यते। भारतं, चीनः इत्यादीनि राष्ट्राणि साह्याभ्यर्थितानि सन्ति।
Tuesday, March 22, 2022
रष्येण सह सर्वान् वाणिज्यबन्धान् समापयतु इति यूरोपीयनेतॄन् प्रति सेलन्स्केः आह्वानम्।
कीव्> रष्येण सह सर्वान् वाणिज्यबन्धान् समापयितुं युक्रैन् राष्ट्रपतिना वोलेदिमर् सेलेन्स्किना यूरोपीयनेतृभ्यः आह्वानं दत्तम्। बाल्टिक्राष्ट्राणि आहत्य यूरोपीय - ऐक्यान्तर्गतानि बहूनि राष्ट्राणि रष्यस्य तैलवातकस्य रष्यात् आयापनाय (import) उपरोधं दापयितुं निश्चिते सन्दर्भे एव सेलेन्स्केः अभ्यर्थना ।
१८ वयःपूर्णेभ्यः 'अवेक्षणमात्रा' परिगण्यते।
नवदिल्ली> भारते ये जनाः १८ वयःपूर्णाः तेभ्यः सर्वेभ्यः कोविड्प्रतिरोधसूच्यौषधस्य तृतीयमात्रां परिरक्षणमात्रारूपेण दातुं केन्द्रसर्वकारेण पर्यालोच्यते। चीनं अपि अन्तर्भाव्य बहुषु राष्ट्रेषु कोविड्प्रकरणानि संवर्धन्ते इत्यत एवायं निर्णयः। कोविड्प्रतिरोधे अग्रेसराः प्रवर्तकाः तथा ६० वयः प्राप्ताः ये वर्तन्ते, तेऽपि सम्प्रति तृतीयमात्रामर्हन्ति।
Monday, March 21, 2022
पाकिस्थाने इम्रान् खानस्य स्थानत्यागं भविष्यति?
इस्लामाबादः> पाकिस्थाने विपक्षदलैः समर्पिते अविश्वासप्रमेये मतदानप्रक्रियायाम् आसन्नायां प्रधानमन्त्रिणं इम्रान् खानं प्रति त्यागपत्रं समर्पयितुं सेनामुख्यः खमर जावेद् बज्वः निरदिशदिति तद्देशीयवार्तामाध्यमैः सूच्यते। इस्लामिकराष्ट्राणां संघस्य 'ओ ऐ सि' नामकस्य विदेशकार्यमन्त्रिणामुपवेशनानन्तरं त्यागपत्रं समर्पणीयमिति निर्दिष्टम्।
राष्ट्रे वर्तमानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रानसर्वकारः इत्यारोप्य विपक्षदलीयैः सर्वकारस्य विमतसदस्यैः च अविश्वासपत्रं समर्पितमासीत्। मार्च् २८तमे दिनाङ्के मतदानप्रक्रिया भवेत्।
जप्पान्> आगमिनि पञ्च संवत्सराभ्यन्तरे जप्पानः भारते ३.२० कोटि रूप्यकाणां निक्षेपः करिष्यति इति प्रधानमन्त्री नरेन्द्रमोदी। जप्पानस्य प्रधानमन्त्रिणा फुमियो किषिदेन साकं साक्षात्कारानन्तरम् आसीत् ख्यापनम्।
Sunday, March 20, 2022
मार्गभ्रंशहेतुना बालकौ पञ्चविंशतिदिनानि यावत् वने अभ्रमताम्। वृष्टिजलं वन्यफलानि च अश्रित्य अतिजीवनम्।
ब्रसीलिया> विश्वस्मिन् अतिबृहत्तमाः वनप्रदेशाः भवन्ति आमसोण् वृष्ट्यरण्यानि। घोरवनानि वन्यजीविनः च आमसोणं निगूढतायाः भयस्य च आवासस्थानं कारयन्ति। आमसोण् वनान्तरेषु मार्गात् भ्रष्टन्तौ पञ्चविंशतिदिनानन्तरं प्रत्यागतयोः बालकयोः अतिजीवनं वार्तामाध्यमेषु त्वरितप्रसरितम् अभवत्। ब्रसीलियादेशीयाः 'मुर' नाम गोत्रविभागे अन्तर्गतौ तौ नववर्षीयः ग्येय्सणः सप्तवर्षीयः गैको नामकः बालकः च आमसोण् वनान्तरात् रक्षाप्रवर्तकैः संरक्षितौ। घोरवनेषु पञ्चत्रिंशत् कि मि वनान्तर्भागे एव बालकौ रक्षाप्रवर्तकैः सन्दृष्टौ। बालकौ पिपासया बुभुक्षया च पीडितौ सन्तौ अपि, तयोः अन्यानि शारीरीकास्वास्थ्यानि न आसन् । फेब्रवरि मासस्य अष्टादश दिनाङ्के एव बालकौ वने दृष्टौ।
Friday, March 18, 2022
विद्यालयीयछात्राणां धिषणावृत्तिपरीक्षा।
चीनम् अभिव्याप्य विदेशराष्ट्रेषु पुनरपि कोविड् व्याप्यते; भारते अपि जागरणनिर्देशः।
नवदिल्ली> चीनम् अभिव्याप्य विविधेषु विदेशराष्ट्रेषु कोविड्रोगव्यापनं पुनरपि संवर्धते इत्यतः भारते अपि जागरूकता अनुवर्तनीया इति केन्द्रसर्वकारेण राज्यानि अभ्यर्थितानि। कोविडस्य अवस्थां परिनिर्णेतुं स्वास्थ्यमन्त्रिणः मनसुखमाणडव्यस्य आध्यक्षे समायोजिते उच्चस्तरीयोपवेशने आसीदयं निर्देशः।
चीनः, दक्षिणकोरिया, सिंहपुरं इत्यादिषु राष्ट्रेषु कोविड्प्रकरणानि उद्गच्छन्ति। चीने गतदिने ५००० कोविड्प्रकरणानि नूतनानि जातानि। ओमिक्रोणस्य उपप्रभेद एव व्याप्यते इति सूच्यते।
Thursday, March 17, 2022
युद्धप्रशमनाय शुभाप्तिविश्वासं प्राकट्य रष्या युक्रेनश्च।
कीव्> सप्ताहत्रयं यावत् अनुवर्तमानस्य रषिया-युक्रेनसंघर्षस्य चर्चया परिसमाप्तिं कर्तुं शुभाप्तिविश्वासमस्तीति उभे राष्ट्रे विश्वासं प्राकटयताम्। उभयोः राष्ट्रयोः मिथः चर्चा अनायासेन न भविष्यतीत्यपि सन्धिमार्गं प्राप्तुं प्रतीक्षा वर्तते इति रषियायाः विदेशकार्यमन्त्रिणा सेर्गय् लावरोवेन प्रस्तुतम्। फलप्रदा चर्चा प्रतीक्षते इति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किः च उक्तवान्।
उभयोः राष्ट्रयोः प्रतिनिधयः ओण् लैन् द्वारा चर्चां कृतवन्तः आसन्। ततःपश्चादासीत् राष्ट्रनेत्रोः अभिमतप्रकाशनम्।
सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्र न्यायालयेन आदिष्टः ।
कीव्> युक्रेनस्योपरि अधिनिवेशप्रक्रमान् आरभ्य २१ दिनानि अतीतानि। सन्दर्भेऽस्मिन् युद्धस्तंभनस्य समयः समागतः इत्यस्ति नूतनं प्रतिवेदनम्। युक्रेनस्य उपरि रष्येण अनुवर्तमानान् सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्रन्यायालयेन आदिष्टः। युद्धस्य स्तगनमुद्दिश्य १५ विभिन्ननियमक्रमान् समादिष्टवन्तः सन्ति। युक्रेनः नाट्टोमध्ये अङ्गत्वं कदापि न स्वीकरिष्ये इत्यपि आसूत्रणे संसूचितम् ।
Wednesday, March 16, 2022
काश्मीरे वर्षद्वयाभ्यन्तरे १०४ सुरक्षाभटाः निहताः।
नवदिल्ली> गतवर्षद्वये काश्मीरप्रदेशे विविधेषु प्रतिद्वन्द्वेषु भारतस्य १०४ सुरक्षासैनिकाः विनष्टप्राणाः सन्तीति केन्द्रसर्वकारेणोक्तम्। प्रतिद्वन्द्वेषु ३४ भीकराः अपि निहताः। राष्ट्रस्य गृहसहमन्त्रिणा नित्यानन्दराय् वर्येण लोकसभायां ।
अन्ताराष्ट्रसीमाद्वारा १७६ निर्गलनोद्यमाः अभवन्। २०२० तममपेक्ष्य २०२१ तमे निर्गलनोद्यमाः न्यूनाः आसन्निति मन्त्रिणा उक्तम्।
नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः
वार्ताहरः - देशराज शर्मा-
साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्। परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ
Tuesday, March 15, 2022
भारते १२ - १४ वयस्केभ्यः कोविड्वाक्सिनम्।
नवदिल्ली> १२ - १४ वयस्केभ्यः बालेभ्यः बुधवासरादारभ्य कोविड्प्रत्यौषधं दास्यतीति भारतस्य स्वास्थ्यमन्त्री मन्सुखमाण्डव्यः प्रास्तूयत। Biological - E नामकसंस्थायाः 'कोर्बे वाक्स्' नामकं सूच्यौषधमेव दीयते।
तथा च षष्ठ्यब्दपूर्णेभ्यः सर्वेभ्यः बुधवासरादारभ्य तृतीयमात्रामपि दातुं निर्णयः कृतः। २०२१ जनुवरि १६ तमे दिनाङ्के आसीत् राष्ट्रे वाक्सिनवितरणमारब्धम्। इतःपर्यन्तं १८० कोटि मात्राः वाक्सिनीनि वितरीतानि।


