गुजरात्।
अतितापेन ८ सिंहशाबकाः मृताः।
अहम्मदाबादः> गुजरात् राज्ये गीर् वने अष्ट सिंहशाबकानां मरणम् कठिनतापेन इति स्पष्टीकृतम्। गान्धिनगरस्थे बयो टेकनोलजी परीक्षणालये विधत्तायां परिशोधनायामस्ति इदं दृढीकरणम्।
गते मासद्वये राज्ये उष्णमानं ४० - ४५ डिग्रीमितम् आसीत्।