तमिल् चलनचित्रसंविधायकः पि. भारतीराजः दिवङ्गतः।
![]() |
| चित्रं - मातृभूमिवार्ता |
चेन्नै> वार्धक्य सहजेन रोगेण तमिल् चलनचित्रसंविधायकः पि. भारतीराजः (८४) दिवङ्गतः। तस्य पुत्रस्य मनोजस्य अकालमृत्योः अनन्तरं भारतीराजस्य अस्वास्थ्यम् अधिकतया वर्धितम् आसीत्। महोदयेन चलनचित्रक्षेत्रे बह्व्या: ग्रमीणकथायाः पुनराख्यानं कृतम् ।
