नरेन्द्रमोदिनः अनन्यथाप्राप्तित्वम्।
विश्वस्मात् अभिनन्दनप्रवाहः।
नवदिल्ली> भारतस्य राजनैतिकेतिहासे नवीनां कीर्तिं स्थापितवन्तं प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रशंसयन्तः विश्वनेतारः राष्ट्रियनेतारश्च। निर्वाचनेन प्रधानमन्त्रीपदं प्राप्य निरन्तरं ४४०० दिनानि तत्स्थाने विराजमानः व्यक्तिः इति ऐतिहासिकपदं नरेन्द्रमोदी महोदयः अर्जितवान्। अनेन सः भारतस्य प्रथमप्रधानमन्त्रिणः पण्डितस्य जवाहरलालनेहरू महोदयस्य कीर्तिमानं भञ्जितवान्।
यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः, आस्ट्रेलियायाः प्रधानमन्त्री स्कोट् मोरिसणः, रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, इटली, मालिद्वीपः, श्रीलङ्का इत्यादीनां राष्ट्राणां प्रशासननेतारश्च मोदिनम् अभिनन्दितवन्तः। तेषां सर्वेषां कृते मोदिवर्यः कृतज्ञतां प्रकाशितवान् च।
१९५२ तमे वर्षे मई-मासस्य १३ दिनाङ्कतः १९६४ तमे वर्षे मई-मासस्य २७ दिनाङ्कपर्यन्तं निरन्तरं ४,३९८ दिनानि यावत् जवाहरलालनेहरू महोदयः निर्वाचितः प्रधानमन्त्री रूपेण देशस्य शासनं कृतवान्। २०१४ तमे वर्षे मई-मासस्य २६ दिनाङ्के प्रथमवारं देशस्य प्रधानमन्त्रिरूपेण शपथग्रहणं कृतवान् नरेन्द्रमोदी, २०१९, २०२४ तमवर्षयोः सामाजिकनिर्वाचनयोः अपि निरन्तरं जनमतं प्राप्य तृतीयवारमपि प्रशासने अनुवर्तते।
"विकासस्य प्रगतेः च कालः"
विगतेषु ४४०० दिनेषु देशस्य आर्थिक-सामाजिक-डिजिटल् क्षेत्रेषु बृहत्परिवर्तनानि अभवन् इति भाजपानेतृत्वेन सूचितम्।
डिजिटल् परिवर्तनानि यू.पी.आई. (UPI), डिजिटल्-इण्डिया-परियोजनाभ्यां च भारतं विश्वस्य बृहत्तमं डिजिटल्-व्यवहार-देशं सञ्जातम्।
बृहद् विकासात्मकपरियोजनाः - वन्देभारत-रेल्यानानि, द्रुतगति-राजमार्गाः (Expressways), नवीनं संसदभवनम्, आयुष्मान् भारत स्वास्थ्यपरियोजना च मोदीसर्वकारस्य प्रमुखाः वैभवाः इति मन्यन्ते।
वैश्विकप्रभावः - विश्वस्य तीव्रगत्या वर्धमाना बृहत्तमा अर्थव्यवस्था-रूपेण भारतं परिवर्तयितुं, वैश्विकस्तरे देशस्य कूटनैतिकप्रभावं वर्धयितुं च एतया सिद्ध्या साध्यम् अभवत्।