OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 8, 2026

 पश्चिमेष्यायुद्धं दिनशतमतीतम्। 

शान्तिः विदूरे।


> इरानं विरुध्य २०२६ फेब्रुवरि २८ तमे दिनाङ्के यू एस्-इस्रयेलसख्येन आरब्धं युद्धं शतं दिनानि अतीतानि। आविश्वम् इन्धनसन्दिग्धता तथा मूल्यवर्धनं च क्लेशायमानं वर्तते। 

एप्रिल् अष्टमदिनाङ्कादारभ्य ह्रस्वकालिकः युद्धविरामः उपस्थापितः अपि पश्चिमेष्या इदानीमपि संघर्षभरिता अवशिष्यते। आणवाभियेजना न त्यक्ता इत्यारोप्य यू एस्, इस्रयेलश्च मिलित्वा इरानं आक्रमतः स्म। 

 इराने लबनने च आहत्य सप्तसहस्रं जनाः मृत्युमुपगताः इति गण्यन्ते। इतरेषु गल्फराष्ट्रेषु त्रिंशत्,इस्रयेले २६ च जनाः मृताः। १३ यू एस् सैनिकाः अपि एतस्मिन् कालान्तरे हताः।