हरियाने अद्य जनविधिः।
चण्डीगढ़ः> हरियानराज्ये विधानसभानिर्वाचनम् अद्य सम्पद्यते। प्रभाते सप्तवादने मतदानं समारब्धम्।
९० मण्डलेषु १०३१ स्थानाशिनः जनहितं कांक्षन्तः सन्ति। मतगणना अष्टमे दिनाङ्के सम्पत्स्यते।
बी एस् एन् एल् षण्मासाभ्यन्तरे सम्पूर्णं '४ जि' भविष्यति।
नवदिल्ली> भारतीय सञ्चार् निगम् लिमेटड् इति भारतसर्वकारस्य दूरवाणीसंस्थायाः उपभोक्तॄणां कृते सन्तोषवृत्तान्तः आगच्छति। २०२५ मार्च् मासाभ्यन्तरे बी एस् एन् एल् इत्यस्य ७५०० गोपुराणि [towers] '४ जी' क्षमाणि भविष्यन्ति। एतावदन्तरे २५०० गोपुराणि '४ जी' क्षमाणि जातानि।
इतरसेवनदातारैः तेषां 'डाटा मूल्यं' वर्धापितमित्यतः बहवः बी एस् एन् एल् प्रति सेवनपरिवर्तनं कृतवन्तः। तथा १. ३ लक्षं जनाः नूतनतया बी एस् एन् एल् उपयोक्तारः अभवन् इति सूच्यते। बी एस् एन् एलस्य वर्तमानीया 'नेट् वर्क्'सुविधा '५जी' संविधानानुगुणा अस्ति इत्यतः २०२५ डिसम्बरमासाभ्यन्तरे एव '५जी' सेवनान्यपि दातुं शक्यते।
इरान-इस्रयेलसंघर्षः - पश्चिमेष्यां प्रति विमानानि निरस्तानि।
टेल् अवीव्> इस्रयेलस्य लेबननाक्रमणमनुबन्ध्य इरानस्य इस्रयेलं विरुध्य आक्रमणस्य आधारे विविधराष्ट्राणां व्योमयानसंस्थाः पश्चिमेष्यां प्रति विमानसेवाः अत्यजन्। लुफ्तान्सा, एयर् इन्डिया, स्विस् एयर्लैन्स्, के एल् एम्, एमिरेट्स्, ब्रिटीष् एयर् वेस् इत्यादिभिः विमानसेवासंस्थाभिः ओक्टोबर्मासान्तपर्यन्तं सेवाः स्थगिताः।
लबनने आक्रमणं तीव्रम्।
अष्ट इस्रयेलीयसैनिकाः हताः।
बय्रूट्> स्थलयुद्धारम्भात् परं द्वितीये दिने ह्यः लबनने सर्वत्र इस्रयेलेन तीव्रं व्योमाक्रमणं विधत्तम्। दक्षिणलबनने स्थानद्वये कृते प्रतिद्वन्द्वे स्वकीयाः अष्ट सैनिकाः हता इति इस्रयेलेन निगदितम्।
मङ्गलवासरे विधत्ते युद्धे लबनने ५५ जनाः मृत्युमुपगताः। १५६ जनाः आहताश्च।
महिला टि - २० विश्वचषकस्पर्धापरम्परा यू ए ई राष्ट्रे अद्य आरभ्यते।
उद्घाटनस्पर्धायां बङ्गलादेशः × स्कोटलान्टः।
भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं प्रति।
दुबाय्> महिलानां टि - २० विश्वचषकक्रिकट् क्रीडास्पर्धापरम्परायाः नवमं संस्करणम् अद्य यू ए ई राष्ट्रे समारभ्यते। उद्घाटनस्पर्धा सायं ३. ३० वादने बङ्गलादेश- स्कोटलान्टयोर्मध्ये भविष्यति। भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं विरुध्य सम्पत्स्यति। हर्मन् प्रीत कौर् भवति भारतीयदलस्य नायिका।
आहत्य दश दलाः भागं करिष्यन्ति। वर्तमानीया वीरदलः आस्ट्रेलिया भवति। अन्तिमस्पर्धा ओक्टोबर् २० तमे दिनाङ्के भविष्यति।
महाकुम्भमेला -५० कोटि जनाः - ९९२ विशेषरेल्यानानि -मूल सुविधायै ९३३ कोटि रूप्यकाणि।
२०२५ तमे वर्षे जनुवरिमासस्य १२ दिनाङ्के उत्तरप्रदेशराज्ये प्रयागराजे महाकुम्भमेलायाः आयोजनं भविष्यति। अस्यां देशस्य विभिन्नभागेभ्यः ५० कोटिजनाः आगमिष्यन्ति, ईदृश्यां स्थित्यां ९९२ विशेषरेल्यानानि धावयितुं रेल्मन्त्रालयेण निश्चितम्। मूलसुविधाविकासाय चान्येषां सुविधायै च ९३३ कोटीरूप्यकाणि रेल्मार्ग-वित्तीय-योजनायां विनियोजितानि सन्ति। सर्वेभ्यः तीर्थयात्रिकेभ्यः सुरक्षया सह कार्यक्षमयात्रानुभवः प्रदास्यते इति रेल्मार्गमन्त्रिणा अश्विनिवैष्णवेण उक्तम्।
इस्रयेलेन स्थलयुद्धम् आरब्धम् - भीत्यां पश्चिमेष्या।
![]() |
| लबननसीमायां इस्रयेलस्य युद्धसन्नाहः। |
जरुसलेमः> लबनने इस्रयेलः स्थलयुद्धम् आरभत। दक्षिणलबनने हिस्बुल्लायाः शक्तिकेन्द्रेषु सोमवासरस्य अर्धरात्रौ नियन्त्रितं परिमितम् आसूत्रितं च स्थलयुद्धमारब्धमिति इस्रयेलसेनया निगदितम्। सीमायां २५ ग्रामेषु वर्तमानाः स्थानं त्यक्तुम् इस्रयेलेन निर्दिष्टाः।
प्रत्युत, स्थलयुद्धस्य अनुक्रमेण टेल्-अवीव्, जरुसलेमं च लक्ष्यीकृत्य इरानेन शताधिकानि अग्निशस्त्राणि [Missile] विक्षिप्तानि। किन्तु जोर्दानस्य आकाशे एव तानि इस्रयेलेन भस्मीकृतानीति 'रोयिटेर्स्' इत्यनेन निगदितम्।
जम्मु-काश्मीरनिर्वाचनं - ह्यः ६५. ४८% मतदानम्।
श्रीनगरं> जम्मु-काश्मीरे ह्यः सम्पन्नस्य विधानसभानिर्वाचनस्य अन्तिमे तथा च तृतीये चरणे ६५. ४८% मतदायकाः मतदानं कृतवन्तः। सायं पञ्चवादनपर्यन्तं लब्धां गणनामनुसृत्य एवैतत्। मतदानप्रक्रिया शान्तियुक्ता आसीत्।
प्रथमसोपाने ५८. ८५%, द्वितीये ५६. ५% इत्येवं रीत्या आसीत् मतदानम्। आहत्य ९० मण्डलानि सन्ति। मतगणना अस्य मासस्य अष्टमे दिनाङ्के सम्पत्स्यते।
सुनितायाः प्रतिनिवर्तनं - पेटकं बहिराकाशनिलयं सम्प्राप्तम्।
वाषिङ्टणः> नासासंस्थायाः शास्त्रज्ञौ सुनिता विल्यंसं बुच् विल्मोरं च भूमिं प्रत्यानेतुं सज्जं स्पेय्स् एक्स् इत्यस्य क्रू - ९ नामकं पेटकम् अन्तर्राष्ट्रीय बहिराकाशनिलयं सम्प्राप्तम्।
फेब्रुवरि मासे तयोः निवर्तनं भविष्यति। मासचतुष्टयं यावत् द्वावपि बहिराकाशनिलये लग्नौ स्तः।
"ईश्वरान् राजनीतिभ्यः विनिर्वर्तयत" इति सर्वोच्चन्यायालयः।
धर्मं राजनितिं च मिथः न संयोजनीया इति सर्वोच्चन्यायालयस्य अभिमतिः। तिरुपति देवस्थानस्य लड्डौ पशुवसाः आरोपिताः इति कारणेन सर्वोच्चन्यायालये प्राप्ते जनहितयाचिकायाम् आसीत् एषा आलोचना। विशेषान्वेषणदलस्य नियुक्तेः सम्बन्धेन याचिका आसीत्।
चन्द्रबाबु नायडुम् अपि सर्वोच्चन्यायालयः विमृष्टवान्। लड्डौ मिलितं दुष्टं न अद्यापि प्राप्तम्। परीक्षणं कृतस्य घृतस्य अंशः लड्डुनिर्माणे नोपयुज्यते स्म। तथापि पूर्वं चन्द्रबाबु नायडुः केनकारणेन जनमाध्यमेषु आरोपं प्रस्तुतवान् इति न्यायालयः अपृच्छत्।
उद्योग-मन्त्रिणम् उपसृत्य उद्यमिनः उक्तवन्तः, विद्युतः शुल्कं यदि न न्यूनीक्रियते तर्हि वयं विनष्टाः भविष्यामः।
नालागढ् (सतविन्द्रः): हिमाचलप्रदेशस्य उद्योगेषु वर्धितानां विद्युतः-शुल्कानां विषये उद्यमिनां एकः प्रतिनिधिमण्डलः सोमवासरे उद्योगमन्त्रिणं हर्षवर्धनचौहानं परवाणौ टिम्बर् ट्रेल् इत्यस्मिन् मिलितवान्। उद्योगमन्त्री एकस्मिन् दिवसीययात्रायाः निमित्तत्वेन नालागढ्-विधानसभा-क्षेत्रं प्राप्तवान्। अस्मिन् काले कार्यक्रमस्य अनन्तरं शिमिलां प्रत्यागच्छन् सः परवाणौ उद्योगपतिभिः सह मिलितवान् तथा तेषां समस्याः श्रोतुम् आरब्धवान्। राज्यस्य उद्यमिनः एकस्वरेण विद्युत्शुल्कं न्यूनं करणीयम् इति मन्त्रिणः पुरतः न्यवेदयन्त, तथा च उक्तवन्तः यदि विद्युत- शुल्कं न न्यूनं क्रियते तर्हि ते विनष्टाः भविष्यन्ति इति। उद्यमिनः अन्येषु राज्येषु प्रचलितानां विद्युत्शुल्कस्य चार्ट् पत्रम् तथा अन्यराज्यानां विद्युत्शुल्कैः सह स्वराज्यस्य शुल्कस्य तुलनात्मकं पत्रं च प्रदर्शितवन्तः।
तमिलनाटे उदयनिधेः उपमुख्यमन्त्रिपदम्।
नूतनाः त्रयः मन्त्रिणः शपथवाचनं कृतवन्तः।
चेन्नई> तमिलनाटराज्ये एम् के स्टालिनस्य मन्त्रिमण्डलस्य विकासः सम्पन्नः। कायिकमन्त्री तथा च मुख्यमन्त्रिणः पुत्रः उदयनिधिः स्टालिन् उपमुख्यमन्त्रिपदं प्राप्तवान्। अलीकधनप्रकरणे मन्त्रिस्थानात् निष्कासितः सेन्तिल् बालाजी इत्यस्य पुनःप्रवेशः लब्धः। नूतनाः त्रयः मन्त्रिणश्च शपथवाचनं कृतवन्तः। एस् एम् नासरः, डो गोवि चेष़ियः, आर् राजेन्द्रः इत्येते नूतनाः मन्त्रिणः।
हिस्बुल्लानेता हसन् नस्रल्लः इस्रायेलेन निहतः।
जरुसलेमः> लेबलनस्य सायुधसंघस्य तथा राजनैतिकशक्तेः हिस्बुल्ला नामकस्य मुख्यनेता हसन् नस्रल्लः [६४] निहतः इति इस्रायेलेन निगदितम्। शुक्रवासरस्य रात्रौ बय्रूते दहियास्थं हिस्बुल्लायाः आस्थानं लक्ष्यीकृत्य कृते व्यामाक्रमणे आसीत् नस्रल्लस्य मृत्युरिति दृढीकृतम्। संघस्य इतरे नेतारः अपि आक्रमणे हता इति च इस्रयेलसेनया निगदितम्।
नेपालदेशे २४ होराभ्यन्तरे १२९ मरणानि अभवन्। ५४ संवत्सरेषु आपन्ना अतितीव्रवृष्टिः।
प्रवर्षणे भूस्खलने च नेपालदेशे १२९ जनाः मृताः। ६९ जनाः अप्रत्यक्षाः अभवन्। जलोपप्लवे निबद्धाः सहस्राधिकाः जनाः रक्षिताः इति सर्वकारेण विज्ञापिताः। मृतानां मध्ये ३४ जनाः काठ्माण्डुतलस्थाः आसन्। नेपालदेशे त्रिदिनपर्यन्तं विद्यालयाः संवृताः। विश्वविद्यालयेषु विद्यालयवास्तुषु च महती हानिः जाता इति वार्तासंस्थाभिः निवेदिता।
प्रधानमार्गाः अवरुद्धाः। जनाः क्लिष्टाः।
ओस्कार् पुरस्कारजेत्री मागि स्मित् दिवंगता।
लण्टनं> द्विवारं ओस्कार् पुरस्कारेण समादृता विख्याता ब्रिटीष् चलच्चित्राभिनेत्री मागि स्मित् [८९] दिवंगता। हारिपोटर्, डौण् टौण् अबे इत्येतयोः आधुनिककालचलच्चित्रयोः अभिनयेन अस्मिन् शतकेSपि बहवः आराधकाः जाताः। १९६९ वर्षस्य 'The Prime of Mis.Jeen Brody' नामके चलच्चित्रे अभिनयेन श्रेष्ठतमा नटी, 'कैलिफोर्निया स्यूट्' इत्यस्मिन् चलच्चित्रे श्रेष्ठतमा सहनटी इति च ओस्कार् पुरस्कारेण समादृता आसीत्। तदनन्तरं बहुवारम् ओस्कार् पुरस्काराय नामनिर्देशोSपि सम्पन्नः।
केरले एकस्यापि वानरवसूरिबाधा - विमाननिलये निरीक्षणे जागरूकता निर्दिष्टा।
कोच्चि> अस्मिन् मासे २३ तमे दिनाङ्के षार्जातः केरलं प्राप्तस्य एरणाकुलं मुलन्तुरुत्तिप्रदेशीयस्य युवकस्य 'एम् पोक्स्' रोगः [वानरवसूरिः] दृढीकृतः। षार्जायां वर्तमाने सति अस्वास्थ्यानुभूतः सः वैद्यमुपगम्य प्राथमिकचिकित्सां स्वीकृत्य एव स्वदेशं प्राप्तवान्। अनन्तरम् आतुरालयं प्रविष्टः से निरीक्षणे आसीत्। वानरवसूरिं दृढीकरणात् परं ये तेन सम्पर्के अभवन् तान् एकान्तवासाय निर्देशः कृतः।
प्रत्युत रोगव्यापनस्य आशङ्का न वर्तते इति राज्यस्वास्थ्यविभागेन निगदितम्। केरलस्य विमानपत्तनेषु अतिजागरूकता निर्दिष्टा च।
मुख्य-निर्वाचनायुक्तः राजीवकुमारः निर्वाचनसम्बन्धेन पत्रकारसम्मेलनं कृतवान्।
मुख्य-निर्वाचनायुक्तः (CEC) राजीवकुमारः शनिवासरे महाराष्ट्रविधानसभानिर्वाचनस्य सम्बन्धेन पत्रकारसम्मेलनं कृतवान्। सः अवदत् यत् महाराष्ट्रविधानसभाया: कार्यकालः २६ नवम्बर समाप्तः भवति। तस्मात् पूर्वं निर्वाचनप्रक्रिया समाप्ता भविष्यति। तिथीनाम् उद्घोषणम् आगामिमासे भविष्यतीति।
राजीवकुमारः तथा निर्वाचनायुक्तौ ज्ञानेशकुमारः एवं एस. एस. संधुः च द्विदिवसीये महाराष्ट्रयात्रायाम् सन्ति। ते विधानसभानिर्वाचनस्य सज्जतासम्बन्धेन समीक्षा कृतवन्तः। ते जिलानिर्वाचनाधिकारिणा, आरक्षकाधिकारिणा अन्याधिकारिणा च साकं मेलनं कृतवन्तः।
एतदधिकं शिवसेनाम्, शिवसेना UBT, महाराष्ट्र नवनिर्माणसेना, बि एस् पी, आम आदमी इत्येताः ११ दलाः च ताभिः मिलितवन्तः। सन्दर्भेऽस्मिन् सर्वे दलाः दिवाली, देवदिवाली, छठपूजा इत्यादीन् उत्सवान् परिगणय्य निर्वाचनतिथीनाम् उद्घोषणं कर्तुं याचितवन्तः।
गङ्गावाली नद्यगाधतायां विलयितः अर्जुनः स्वगृहाङ्कणे नित्यनिद्रां प्राप्तवान्। 
अर्जुनः।
कोष़िक्कोट्> कर्णाटकस्थे षिरूरे गङ्गावाली नद्यां जूलाय् १६ तमे दिनाङ्के दुरापन्नेन भूस्खलनेन भारवाहकयानेन समं तिरोभूतः यानचालकः कोष़िक्कोट् कण्णाटिकल् ग्रामवासी अर्जुनः ७५ दिनानामनन्तरं सहस्रशः जनानां स्नेहाञ्जलिं स्वीकृत्य स्वगृहाङ्कणे नित्यनिद्रां प्राप।
दिनत्रयात्पूर्वं नद्याः अगाधतः भारवाहयानेन सह अर्जुनस्य शरीरावशिष्टानि सन्दृष्टानि। औद्योगिकप्रक्रमानन्तरं ह्यः सायं भौतिकशरीरमूढ्वा आम्बुलन्स् यानं केरले अर्जुनस्य जन्मग्रामं प्रति प्रस्थितम्। अर्जुनस्य सोदरः अभिजितः स्यालः जितिनश्च याने उपस्थितौ आस्ताम्। ७२ दिनानि दीर्घिते अन्वेषणदौत्ये दुरन्तस्थानमुपस्थाय नेतृत्वमावहन् कार्वारस्य सदस्यः सतीश् कृष्ण सेयिलः , प्रथमसोपाने आत्मसमर्पणरीत्या अन्वेषणं कृतवान् मज्जनकुशलः ईश्वर माल्पे, सर्वाणि च दिनानि दुर्घटनास्थानं स्थित्वा अन्वेषणे सहयोगं कृतवान् भारवाहकस्वामी मनाफः च भौतिकशरीरमनुगतवन्तः।
प्रभाते षट्वादने कोष़िक्कोट् जनपदसीमायां केरलसर्वकाराय मन्त्री ए के शशीन्द्रस्य नेतृत्वे जनपदाधिकारिणः मृतशरीरं स्वीकृत्य कण्णाटिक्कल् ग्राममनयन्। मार्गस्य पार्श्वयोः अनेके जनाः अन्त्याञ्जलिं समर्पयितुं प्रतीक्षितवन्तः। गृहे प्राप्ते सहस्रशः जनाः स्नेहाञ्जलिं समर्पितवन्तः। मध्याह्ने अन्त्येष्टिक्रियाः पूर्तीकृत्य सहोदरः अभिजितः अर्जुनस्य भौतिकशरीरम् अग्नये समार्पयत्।
हिस्बुल्ला आस्थानमाक्रम्य इस्रयेलः।
जरुसलेमः> इरानस्य सहयोगेन प्रवर्तमानस्य लबनीयसायुधसंघस्य हिस्बुल्ला नामकस्य आस्थानं ह्यः इस्रयेलेन आक्रमितम्। लबननस्य राजनगरी बेय्रूट् इत्यस्य दक्षिणभागे दहियास्थाने वर्तमानमास्थानमेव आक्रमणाधीनमभवदिति इस्रयेलस्य सैनिकवक्ता डानियल् हगारी न्यगादीत्।
हिस्बुल्लायाः नेतृमुख्यः हस्सन् नस्रल्ला आसीत् इस्रयेलस्य लक्ष्यमिति लबनीसवार्तामाध्यमैः प्रस्तुतम्।
यू एन् रक्षासमितिः - भारतस्य स्थिराङ्गत्वे सहयोगेन इमानुवल् मक्रोणः।
न्यूयोर्क्> ऐक्यराष्ट्रसभायाः रक्षासमित्यां भारतस्य स्थिराङ्गत्वाय सहयोगं कुर्वन् फ्रञ्च् राष्ट्रपतिः इमानुवल् मक्रोणः। रक्षासमित्याः परिष्करणाय इतोSपि अङ्गाः आवश्यकाः। तस्मात् भारतं जापानं जर्मनी ब्रसीलम् इत्येतानि राष्ट्राण्यपि स्थिराङ्गाः करणीयाः इति मक्रोणेन यू एन् सामान्यसभायायाम् अभ्यर्थितम्।
बिहारे जीवित पुत्रिका उत्सवकार्यक्रमे ४३ जनाः जले निमज्य मृताः।
पट्ना> बिहार राज्ये सम्पन्ने जीवित पुत्रिकानाम्नि उत्सवकार्यक्रमे ४३ जनाः मृत्युमुपगताः। १५ जनपदेषु विभिन्नदुर्घटनायामेवेयं दुर्गतिः। मृतेषु ३७ बालकाः भवन्ति।
उत्सवस्य अंशतया विविधनदीषु स्नानार्थम् अवतारिताः दुर्घटनालग्नाः जाताः। अपत्यानाम् ऐश्वर्याय महिलाभिः आयोज्यमानः उत्सवो भवति 'जीवित् पुत्रिका'। मृतानां परिवाराय मुख्यमन्त्रिणा नितीशकुमारेण चतुर्लक्षं रूप्यकाणां राशिसाह्यं प्रख्यापितम्।