OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 28, 2024

 हिस्बुल्ला आस्थानमाक्रम्य इस्रयेलः। 

जरुसलेमः> इरानस्य सहयोगेन प्रवर्तमानस्य लबनीयसायुधसंघस्य हिस्बुल्ला नामकस्य आस्थानं ह्यः इस्रयेलेन आक्रमितम्। लबननस्य राजनगरी बेय्रूट् इत्यस्य दक्षिणभागे दहियास्थाने  वर्तमानमास्थानमेव आक्रमणाधीनमभवदिति इस्रयेलस्य सैनिकवक्ता डानियल् हगारी न्यगादीत्। 

  हिस्बुल्लायाः नेतृमुख्यः हस्सन् नस्रल्ला आसीत् इस्रयेलस्य लक्ष्यमिति लबनीसवार्तामाध्यमैः प्रस्तुतम्।