OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 28, 2024

 गङ्गावाली नद्यगाधतायां विलयितः अर्जुनः स्वगृहाङ्कणे नित्यनिद्रां प्राप्तवान्। 

अर्जुनः। 

कोष़िक्कोट्> कर्णाटकस्थे षिरूरे गङ्गावाली नद्यां जूलाय् १६ तमे दिनाङ्के दुरापन्नेन भूस्खलनेन भारवाहकयानेन समं तिरोभूतः यानचालकः कोष़िक्कोट् कण्णाटिकल् ग्रामवासी अर्जुनः ७५ दिनानामनन्तरं सहस्रशः जनानां स्नेहाञ्जलिं स्वीकृत्य स्वगृहाङ्कणे नित्यनिद्रां प्राप। 

   दिनत्रयात्पूर्वं नद्याः अगाधतः भारवाहयानेन सह अर्जुनस्य शरीरावशिष्टानि सन्दृष्टानि। औद्योगिकप्रक्रमानन्तरं ह्यः सायं भौतिकशरीरमूढ्वा आम्बुलन्स् यानं केरले अर्जुनस्य जन्मग्रामं प्रति प्रस्थितम्। अर्जुनस्य सोदरः अभिजितः स्यालः जितिनश्च याने उपस्थितौ आस्ताम्। ७२ दिनानि दीर्घिते अन्वेषणदौत्ये दुरन्तस्थानमुपस्थाय नेतृत्वमावहन् कार्वारस्य सदस्यः सतीश् कृष्ण सेयिलः ,  प्रथमसोपाने आत्मसमर्पणरीत्या अन्वेषणं कृतवान् मज्जनकुशलः ईश्वर माल्पे, सर्वाणि च दिनानि दुर्घटनास्थानं स्थित्वा अन्वेषणे सहयोगं कृतवान् भारवाहकस्वामी मनाफः च  भौतिकशरीरमनुगतवन्तः। 

  प्रभाते षट्वादने कोष़िक्कोट् जनपदसीमायां केरलसर्वकाराय मन्त्री ए के शशीन्द्रस्य नेतृत्वे जनपदाधिकारिणः मृतशरीरं स्वीकृत्य कण्णाटिक्कल् ग्राममनयन्। मार्गस्य पार्श्वयोः अनेके जनाः अन्त्याञ्जलिं समर्पयितुं प्रतीक्षितवन्तः। गृहे प्राप्ते सहस्रशः जनाः स्नेहाञ्जलिं समर्पितवन्तः। मध्याह्ने अन्त्येष्टिक्रियाः पूर्तीकृत्य सहोदरः अभिजितः अर्जुनस्य भौतिकशरीरम् अग्नये समार्पयत्।