पश्चिमेष्या अशान्ता।
आग्नेयक्रीडा अनुवर्तते।
इराने अमेरिकायाः व्योमाक्रमणं; जोर्दान-कुवैट्-बहरिनराष्ट्राणि प्रति इरानस्य प्रत्याक्रमणम्।
टेहरानं> होर्मुस् समुद्रधुनिसमीपे स्वस्य सैनिकोदग्रयानं भग्नीकृतम् इत्यारोप्य अमेरिका गतदिने इरानम् आक्रामत्। प्रत्याक्रमणरूपेण जोर्दान-कुवैट्-बहरिनराष्ट्रेषु वर्तमानानि यू एस् सेनाशिबिराणि इरानेन आक्रान्तानि।
परन्तु इरानस्य ड्रोणेन सह संघट्य एव अमेरिकायाः उदग्रयानं भग्नमिति अमेरिकीयसेनाधिकारिणं प्रसूचयन् अन्ताराष्ट्रमाध्यमैः वृत्तान्तीकृतम्। घण्डाचतुष्टयं दीर्घिते यू एसस्य आक्रमणे इरानीयनगरस्थेषु व्योमप्रतिरोधसंविधानानि, भूतलनियन्त्रणकेन्द्राणि, समुद्रतीरस्थानि 'रडार्' केन्द्राणि च विशीरितानीति अमेरिकया निगदितम्।
Latest newsLatest news















