OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 4, 2015

स्वकीयविमानेन चीना।

बैजिङ्- विमानेषु बोयिङ्, एयर बस् यानयोः प्रतिद्वन्ती इव नूतनं विमानं चीनया निर्मितम् सी 919 इति नाम्ना अवतारितस्य विमानस्य निर्मितिः कमेर्सियल् एयर क्राफ़्त् कोर्परेषन ओफ़् चैना नाम संस्थया एव शान हाइ नगरे पुटोङ् राष्ट्रान्तर विमानपत्तने विमानस्य प्रदर्शनमकरोत्
एञ्जिन् द्वयेनयुक्तस्य 39 मीटर दीर्घाकारस्य च अनेन आकाशयानेन 5555 कि मी दूरम् अनुस्यूतम् डयितुम् शक्यते। प्रथमं परीक्षणडयनम् आगामिनि वर्षे कर्तुं शक्यते इति तेषां शुभेच्छा 2019 तमे विमानस्य प्रथममं क्रमानुसारडयनम् भविष्यति 




भारत स्योपरि आक्रमणं कर्तुं 
सीमनि प्रतीक्षमाणाः ३०० आतङ्कवादिनः



श्रीनगरम्- भारतं निलीय प्रवेष्टुं भारतसीम्नः समीपम् आतङ्कवादिनः गुप्तवासं कुर्वन्तीति  वरिष्ठसैनिक:  जनरल् सतीष्‌ दुव अकथयत् । भारतसुरक्षासेनायाः शक्तैः प्रतिरोधप्रवर्तनैः एव आतङ्कवादिनः अन्तः प्रवेष्टुं न पारयन्ति । कदाचित् आक्रमणमपि कुर्वन्तीति सः अवदत् ।प्रधानमन्त्रिणः जम्मु सन्दर्शनवेलायां ह्यः पाकिस्तानतः गोलास्त्रप्रयोगः आसीत् । भारतसैन्यं प्रति आक्रमणे द्वौ  सैनिकौ मृतौ च । ह्यः१२.३०वादने आरब्धम् आक्रमणं द्विवादन वादन पर्यन्तमासीत् । पाक्‌सैन्यस्य एतादृशी प्रवृत्ति: आतङ्कवादिनां भारतप्रवेशनस्य साहायार्थम् इति भारतम् आरोपणं करोति।

 बोडो भीकरः केरल देशात् गृहीतः।

कोषिक्कोट्- निरुद्धायाः बोडोभीकरसंस्थायाः नेता कोषिक्कोट् जनपदे आरक्षकैः गृहीतः।असं राज्यस्य 'नाषणल् डमोक्राटिक् फ्रन्ट् आफ् बोडोलान्ट् ' इति संस्थायाः कार्यदर्शी तथा सायुधसंघस्य नेता लिबियोण् बसुमतारी (डिङ्का-३८) एव विशिष्टारक्षकसंघेन गृहीतः।
  वटकरायां कक्कोटिमुक्क् इत्यस्मिन् स्थाने असमीयैः कर्मकरैः साकं निलीय वासं कुर्वन्तमेनं सैनिकगुप्तचरविभागात् लब्धां सूचनामनुसृत्य राज्यस्य गुप्तचरविभागस्य अधिकारिणः वि पि सदानन्दस्य संघ अग्रहीत्।