OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 21, 2015

मालिदेशे भीकराक्रमणम् - १७० जनाः बन्धनस्थाः।

बमाको - पारीस् भीकराक्रमणानन्तरं आतङ्कवादिनः पश्चिमा आफ्रिक्कीयस्य मालिदेशस्य राजधान्यां कस्मिंश्चित्  उपाहारगृहम् आक्रम्य १७० जनाः बन्धनस्थीकृताः। त्रयः मृताः इति मालि गृहमन्त्रिणा सूचितम्। मृतेषु द्वौ माली देशीयौ एक फ्रञ्च्देशीयः च। नवजनाः मृताः इत्येव औद्योगिकं वृृत्तम्।  विंशति भारतीया: तत्र आसीत् चेदपि ते त्रासिताः इति विदेशकार्यमन्त्रालयेन सूचितम् । बमाक्को मध्ये सम्मर्दयुक्ते राडिसन् ब्लू पञ्चनक्षत्राट्टाहारावासशालायां एव भीकराक्रमणम्। बन्धितेषु १४० जनाः अतिथयः तथा ३० जनाः वासशाला कार्यकर्तार: च भवन्ति। बन्धितान् रक्षितुं मालि फ्रञ्च् सैनिकाः तत्र  प्रविष्टाः।


तटियन्टविट नसीरस्य न्यायवादिनः नीतिपीठेन सूचिताः।

बङ्गलुरु - बङ्गलुरु विस्फोटनविषये अपराधिनः तटियन्टविट नसीर् इत्यस्य न्यायवादिनः बाङ्लूर् ऐ एन् ए न्यायालयः पूर्वसूचनाम् अकरोत्।विषये अन्तर्भूतान् साक्षिणः स्वाधीनतां कुर्वन्ति इत्यारोपणे एव नीतिपीठस्य रूक्षविमर्शः।
नसीरस्य मित्रं सन्देशवाहकः च पेरुम्पावूर् स्वदेशीयः षहनासः गतसप्ताहे आरक्षकैः गृहीतः आसीत्।तस्य सकाशात् साक्षिणः दूरवाणीसंख्या , सङ्केतः इत्यादयः परिगृहीताः।साक्षिणः संरक्षणीयाः इति कर्णाटकसर्वकारः न्यवेदयत्।