OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 10, 2015

मदिराविक्रयणलकुचविषये 
उच्चन्यायालयेनापि 'माणिः' परित्यक्तः।

 कोच्ची- मदिराविक्रयणलकुचविषये केरलवित्तमन्त्रिणं के एम् माणिं विरुद्ध्य भ्रष्टाचारविरुद्धन्यायालयस्य आदेशः
उच्चन्यायालयेनापि साधुः इति कृतः। पुनरन्वेषणं करणीयमिति उच्चन्यायालयेनापि निर्दिष्टम्। मदिराव्यापारिणां सकाशात् स्वीकृताविहितधनस्य विषये माणिं विरुद्ध्य नीतिपीठः रूक्षविमर्शमपि कृतवान्। केरलाकोण्ग्रस्(एम्),कोण्ग्रस्(ऐ),यू डि एफ् इत्येषाम् उन्नताधिकारसमितिः अद्य अनन्तपुर्यां सम्मिलति। बहवः दलनेतारः माणिवर्यस्य त्यागपत्रम् अभ्ययाचन्त। अतः अद्य एव स्थानत्यागाय अवकाशः अस्ति। 


वल्लत्तोल् जयन्ती समुचितं आघुष्टम् । 

चेरूतुरुत्ति - केरलीयमहाकवे: वल्लत्तोल् महोदयस्य जयन्तीवार्षिकं समुचितं
आघुष्टम् । उपकुलपतिः पि .एन् .सुरेशवर्यः , वल्लत्तोल् वासन्ती मेनोन् , इत्यादीनां नेतृत्वे कवयः कलामण्डलम् अध्यापका :,अन्ये कार्यकर्तार: छात्राः च वल्लत्तोल् समाधिमन्दिरे  पुष्पार्चनां अकुर्वन् । मलयालम् विश्वविद्यालयस्य उपकुलपतिः के . जयकुमार वर्यः वल्लत्तोल् अनुस्मरणभाषणं कृतवान् । काव्यपूजायां  एन् .के.देशं , के .वि.रामकृष्णः, कल्पट्ट नारायणः आलङ्कोड् लीलाकृष्णः, रफीक्‌ अहम्मदः , सेबास्ट्यन्, श्रीलता वर्मा इत्यादया: भागं गृहीतवन्तः । ततः नलचरितं साहित्यं वेदिका च इति विषये सङ्गोष्ठी जाता रात्रौ निलादेशीय नृत्यसङ्गीतसम्मेलने  जानकी रङ्गराजेन कृतं भरतनाट्यं भावतरङ्गितं जातम् ।  ततः नलचरितं तृतीयदिनं कथाकेलिः आसीत्  यस्मिन् विख्यातनटः कलामण्डलं गोपिवर्यः बाहुकवेषं धृतवान् । ततः कीचकवधम् कथाकेलिः अपि आसीत् ।                                      -सुजा हरिदासः 
  
॥ सुवचने ॥
अनतिक्रमणीया हि नियतिः ।
अधिकस्याधिकं फलम् ।