OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 13, 2015

संस्कृतेन सत्यप्रतिज्ञा - केरले नवचरितं रचितम्।

अनन्तपुरी - केरलेषु इदंप्रथमतया संस्कृतभाषया जनप्रतिनिधेः सत्यप्रतिज्ञा। गतदिने संवृत्तायां तद्देशजनप्रतिनिधीनां सत्यप्रतिज्ञास्वीकरणसमये तिरुवनन्तपुरं महानगरसभासामाजिकः भाजपादलस्य राज्यसमित्यङ्गः करमना अजितः
संस्कृतभाषया सत्यवाक्यमुक्त्वा संस्कृतमातृसेवामकरोत्। अनन्तपुरी महानगरसभायाः चरित्रे इदंप्रथमतया एव संस्कृतवाक्यानि उद्घुष्टानि। संस्कृतश्रवणमात्रेण सश्रद्धं निश्शब्दं सभागृहम् अजित्वर्यस्य शपथस्यान्ते उच्चैर्हस्तघोषैः आदरं प्रदर्शितवत्। आदौ वरणाधिकारी तथा  जनपदाधीशः बिजु प्रभाकरः सभायाः ज्येष्ठतमायै सामाजिकायै डो. विजयलक्ष्म्यै सत्यवाक्यम् उपादिशत्। तदनन्तरं विजयक्ष्मीवर्यायाः नेतृत्वे शिष्टाः९९ सामाजिकाः सत्यप्रतिज्ञां कृतवन्तः।