OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 13, 2015

एष्याभूखण्डस्य बृहत्तमः विद्यालयकलामेला केरलेषु।


अनन्तपुरी - एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति सुविख्यातः केरलच्छात्रोत्सवः (केरला स्कूल् कलोत्सवः) जनुवरिमासस्य १७ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं तिरुवनन्तपुरं जनपदे प्रचलिष्यति इति केरलस्य शिक्षामन्त्री पि के अब्दुरब्ब् महोदयः विज्ञापितवान्। एरणाकुलं जनपदे इति पूर्वनिश्चिता आसीदियं कलामेला । किन्तु मेट्रो निर्माणेन अनुभूयमानां दुरवस्थां परिगणय्य एव मेलासञ्चालनाय अनन्तपुरी निश्चितेति शिक्षामन्त्रिणोक्तम्।
 

ब्रिटनदेशे प्रधानमन्त्रिणे उज्ज्वलं स्वीकरणम्।

लण्टन् - भारतप्रधानमन्त्रिणे  नरेन्द्रमोदिवर्याय  उज्ज्वलं स्वीकरणम् । त्रिदिनसन्दर्शनाय ब्रिटन्देशं प्राप्तं प्रधानमन्त्रिणं कोमण् वेल्त् विदेशकार्यमन्त्री ह्यूगो स्वेर्, भारतवंशजा ब्रिटीश्मन्त्री प्रीति: पटेलः इत्यादयः स्वीकृतवन्तः ।

मोदिनः सन्दर्शनेन अतीव सन्तुष्ट: इति ब्रिटीश् प्रधानमन्त्री डेविड् कामरूण्वर्यः अवदत् । उभयोः राष्ट्रयोः मिथः सौहृदं दृढीकर्तुं मोदिनः सन्दर्शनं उपकरिष्यतीति कामरूण् स्पष्टीकृतवान् ।
ब्रिटीश् पार्लिमेन्ट्  संयुक्तसम्मेलनं प्रधानमन्त्री नरेन्द्र मोदी सम्बोधयिष्‍यति । जनप्रतिनिधिसभायाः प्रभुसभायाः च संयुक्तसम्मेलने अपि स: भागं ग्रहीष्यति । मोदि वर्यस्य बहुमानार्थं एलिसबत् महाराज्ञी मध्याह्नभूरिभोजनस्य व्यवस्थां कृतवती । तस्य इङल्ण्डसन्दर्शनम् शनिवासरे समाप्तिम्' एष्यति । ततः स:  G40 सम्मेलने भागं ग्रहीतुं तुर्कीं गमिष्यति

 
भारते असहिष्णुतायाः स्थानं नास्ति इति प्रधानमन्त्री मोदिवर्यः

लन्टन्- देशवासिनः व्यक्तिगतस्वातन्त्र्यं लिखितभरणशासनानुसारं सर्वेभ्यः समानं इति दृढीकृतमस्ति। भगवतः बुद्धस्य तथा महात्मा गान्धीवर्यस्य च जन्मभूमि: इदं भारतम् । अस्मिन् असहिष्णुतायाः स्थानं नास्ति इति ब्रिट्टन् राष्ट्रस्य  उच्चशासनसभायां नरेन्द्रमोदिना अवदत् ।  ब्रिट्टन् देश:अपि इदानीं आतङ्कवादिभ्यो  भीतो वर्तते। तत् परिहर्तव्य:। आतङ्गवादान् विरुद्ध्य किमपि कर्तव्यः इति सर्वेषां मानवानां कर्तव्यमेव इति च सः अवदत्।
 
चाकलेहः इति विचार्य विस्फोटकं खादिता बालिका मृता।

रत्नगिरिः - महाराष्ट्रायां रत्नगिरिजनपदे तिसाङ्गी इति ग्रामे दामिनी निगम् नामिका पञ्चवयस्का बालिका  चाकलेहः इति विचिन्त्य विस्फोटकं खादित्वा मरणं प्राप्ता।स्वगृहस्य पुरतः मित्रैः साकं क्रीडावत्याम् इयं दुर्घटना जाता। झटित्येव माता समीपस्थमातुरालयं नीतवती तथापि बालिका मृत्युमुपगता।

 ॥ सुवचनानि ॥
गहना कर्मणो गतिः ।
गुणाः सर्वत्र पूज्यन्ते ।